SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ [५०] आगमस्यानादिमत्त्वात्तद्वक्तृणामपि तद्वत्त्वस्वीकारात् । ननु भवद्भिरहतामनादित्त्वं न स्वीक्रियते इतिचेत्तत्राह-अर्हेत्यादिना । वेद. वक्तगामिवाऽऽगमवक्तृणामह तामप्यनादित्वस्वीकारात् समानतायां वाधकाभावादित्यर्थः। ननु समानतायामस्तिबाधकमथापि हिरण्यगर्भादीनामन्यवेदवक्तवेदवक्तृत्वादित्याशङ्कते-तेऽन्यवेदेत्यादिना। ते -हिरण्यगर्भादयः । अन्यवेदवक्तृवेदवक्तार:-अन्ये वेदवक्तारोऽन्यवेदवक्तारस्तदुच्चारिता वेदा अन्यवेदवक्तवेदास्तेषां वक्तारस्तथा । समानतां समर्थयति अर्हन्तवित्यादिना-अर्हतामप्यन्याहदुक्ताSS. गमवक्तृत्वस्वीकारेण समानतायां बाधकाभाव इतिभावः । अन्ये च तेऽर्हन्तोऽन्याहन्तस्तैरुक्त आगमोऽन्याहदुक्तागमस्तस्यवक्तारस्तथेति । नन्वर्हतामागमवक्तृत्वस्वीकारेऽप्यन्याहदुक्तो य आगमस्तद्वक्तृत्वमनपेक्षित्वान्न स्वीक्रियते इतिसमानता नास्तीत्याशङ्कतेतदन्येत्यादिना। अयमाशयः-हिरण्यगर्भादीनां स्वातन्त्र्येणान्यवेदवक्तृत्वानपेक्षितवेदवक्तृत्वं नास्ति तेषामर्हतां पुनस्तदन्याईदुक्तत्वानपेक्षितागमवक्तृत्वमेव स्वीक्रियते इतिवेदागमयोस्तदन्योक्तानपेक्षित्वकृतो विशेषो वर्तत एव सुतरां तद्वक्तृणामपि हिरण्यगर्भादीनामहंतामस्ति विशेष इति । समाधत्ते नेत्यादिना-अर्हतामप्यन्याहदुक्तागमवक्तृत्वस्वीकारेण तदुक्त'ऽऽगमेऽन्याहदुक्तत्वानपेक्षित्वासिद्धेः । तत्र हेतुमाह-तयैवेत्यादि-ययैवानुपूर्व्या तदन्यैरर्हद्भिरुक्त आगमस्तयैवानुपूा तर्हताप्युक्तत्वात् तदन्याईदुक्तागमवक्तृत्वमेव स्वीकरणीयमिति नास्ति समानतायां किश्चिद्वैषम्यमिति । ननु हिरण्यगर्भादिकर्तृकवेदोपदेशकालावच्छे देन हिरण्यगर्भादौ अन्यवेदवक्तमुम्वाधीतत्वं वेदवक्तृत्वश्चोभ यमप्यरित अर्हत्कर्तृकाऽऽगमोपदेशकालावच्छेदेन तस्मिन्नागमवक्तृत्वसत्त्वेऽपि तदन्याहन्मुखाधीतत्वाभावान्नास्ति
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy