SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ [४९] मितरेतराश्रयदोषानुपपत्तेश्वोढनानुष्ठानफलत्वेनागमात् सिद्धः सर्वज्ञ इति । आगमस्य पुरुषवक्तृकत्वस्वीकारेण पुरुषकर्तृकत्वप्रयोज्यस्याप्रामाण्यस्य वारणेऽपि तत्रैव ( पुरुषवक्तृकत्व एव ) अन्योन्याश्रयदोषमुद्घाटयति-स्यादेतदिति । दोषमुपपादयति-अर्हन्नेवागमस्येत्यादिना। अर्हन्-तीर्थकृदेव आगमस्य-कल्पसूत्रादेः वक्ताप्रवक्तेतिहेतोः आगमस्य-कल्पसूत्रादेः, केवल्युक्तत्वम्-केवलिप्रोक्तत्वम् केलित्वात्-केवलज्ञानविशिष्टत्वात्, च-पुनः, अस्यकेवलिनः सर्वज्ञस्य, तदुक्तानुष्ठानफलत्वम्-आगमोक्तानुष्ठानप्रयोजनत्वम् इति हेतोः, इतरेतराश्रयदोष:-अन्योन्याश्रयदोषस्तथाच सिद्धान्ति भिरागमस्याहद्वक्तृकत्वमर्हतश्चागमानुष्ठानफलत्वमित्युभयमपि न शक्यं स्वीकर्तुमितिसमाधत्ते-नैवमित्या दिना । हिरण्यगर्भादय एव वेदवक्तार इतिवेदस्य हिरण्यगर्भादिप्रोक्तत्वन्तेषाश्च वेदोक्तानुष्ठानफलत्वमितीतराश्रयदोषस्य हिरण्यगर्भाधसत्त्वाऽप्रयोजकत्वमिव प्रकृतेऽप्यर्हदसत्त्वाप्रयोजकत्वमवसेयम् । ननु हिरण्यगर्भादीनां वेदोक्तानुष्ठानफलत्वास्वीकारेण कुतोऽन्योन्याश्रय इतिशङ्कायामाह-तेषामपीत्यादिना । एवञ्च हिरण्यगर्भादीनां तदुक्तानुष्ठानफलत्वास्वीकारेणेतरेतराश्रयदोषवारणं भवतामनुपपन्नमितिभावः। ननूभयोरस्ति वैषम्यम् , वेदस्यानादिमत्त्वात्तद्वक्तृणांहिरण्यगर्भादीनामप्यनादित्वस्वीकारात्, आगमवक्तु: केवलिनश्चानादिमत्त्वाऽस्वीकारादित्याशङ्कते-अनादीत्यादिना, अस्य-वेदस्य, तद्वन्तः-अनादिमत्त्ववन्तः । समाधत्ते-इतरत्रापीत्यादिना । इतरत्रअन्यत्र केवलिष्वपीत्यर्थः । एतत्-अनादित्वम्, समानम्-तुल्यम् ।
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy