SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ [ ४८ ] णीयमिति नाद्वत्वमेव प्रामाण्यप्रयोजकमितिभावः । साधकमाह - अन्यथेत्यादि-उक्तरूपं प्रामाण्यं यदि न स्वीक्रियेत तदा शब्दस्य प्रामाण्यमेवानुपपन्नं स्यादितिभावः । १४ - ( मूलम् ) स्यादेतत्, अर्हन्नेवागमस्य वक्तेत्यागमस्य केवल्युक्तत्वं केवलित्वाच्चास्य तदुक्तानुष्ठानफलत्वमितीतरेतराश्रयदोषः, नवम्, वेदवक्तृष्वपि हिरण्यगर्भादिषु समानत्वात् तेषामपि विशेषेण तदुक्तानुष्ठानफलत्वात्, अनादिमत्वादस्य तद्वन्त एव वक्तार इतिचेत्, इतरत्रापि समानमेतत्, अर्हतामप्यनादित्वाभ्युपगमात्, तेऽन्यवेदवक्तृवेदवक्ता इतिचेत्, अर्हन्तोऽप्यन्यार्हदुक्तागमवक्तार इति - समानमेव, तदन्यार्हदुक्तत्वानपेक्षित्वेन तेषां तद्वक्तृत्वादसमानमितिचेत्, न, अनपेक्षित्वासिद्धेः, तयैवानुपूर्व्याऽभिधानात्, अन्याईन्मुखाधीतागमवक्तारो न भवन्तीत्यसमानमेवेतिचेत्, न, जातिस्मरणातिशयवेदवक्तृत्ववत्, केवलातिशयतस्तदा तथाऽऽगमवक्तृत्वेऽन्याईन्मुख । धीतत्वस्याप्रयोजकत्वात्, अन्यदा चान्यतद्वक्तृमुखाधी तत्वस्य तत्राहत्यपि समानत्वात्, अवेदत्वादागमस्यासमानमिति चेत्, न, अवेद एवागमे न्यायमार्गतुल्यतायाः प्रतिपादयितुमिष्टत्वात्, अन्यथा वेदस्याप्यनागमत्वात् नास्मदुक्तन्यायानुपातित्वमिति वक्तुं शक्यत्वात् । भवदागमप्रामाण्ये विगानमिति चेत् ? वेदप्रामाण्येऽपि तुल्यमेतत्, तथापि स एव प्रमाणं नागम इतिचेत न, कोशपानादृते प्रमाणाभावात् एव
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy