________________
[४७ ] त्तियदि स्वतन्त्रे आगमस्य पुरुषवक्तृकत्वं स्वीकृतं स्यात् तदेव नास्तीति शङ्कते-नचैतदिति । एतत्-आगमस्य पुरुषवक्तकत्वम् , स्वतन्त्रविरोधि - स्वशास्त्रविरुद्धमित्यर्थः। समाधत्ते - नमेति"नयस्तीर्थाय” इत्येतद्वचनं तीर्थकृताप्युच्यते न तु क्रियते इति स्वतन्त्रेप्यागमस्य पुरुषवक्तृकत्वं सिद्धं वेदितव्यम् , ननु भवतु पुरुषवक्तृत्वेन तत्कर्तृकत्वासिद्धिर्न तावता भवतामभीष्टसिद्धिः पुरुषवक्तृकत्वस्यापि तदप्रामाण्यप्रयोजकत्वादित्याशङ्कते-नचपुरुषेत्यादि । अस्य-आगमस्य । निमित्तम्-प्रयोजकम् । समाधत्तेवेदेत्यादि । तनिष्ठपुरुषवक्तृकत्वं यदि तदप्रामाण्यप्रयोजकन्तदा वेदानामपि पुरुषवक्तृकत्वेनाप्रामाण्यं दुर्वारन्नच तद्भवतामिष्टमिति । ननु सम्भवेदियमापत्तिरस्माकं यदि वयं वेदानां पुरुषवक्तृकत्वमभ्युपगच्छेम तदेव तु नाभ्युपगच्छाम इत्याशङ्कते-नचतदेत्यादि । सिद्धान्ती समाधत्ते-पुरुषव्यापारेति-पुरुषस्योच्चारणात्मकव्यापार विना कर्णविवरवाकाशावच्छेदे न वेदात्मकवचनश्रावणप्रत्यक्षमनुपपन्नं स्यात्ततः पुरुषवक्तकत्वमवश्यं स्वीकरणीयमेवेतिभावः । ननु तदुपलब्धौ वेदीयाऽऽनुपूर्वी नियतिभावादेः प्रयोजकत्वमभ्यपगम्यते इति पुरुषव्यापारं विनापि न तदुपलब्धौ किश्चिद्वाधकमितिचेत्तत्राह-आनुपूर्वीत्यादिना । आगमेऽपि तादृशानुपूर्वीनियतिभावादेः समानतया पुरुषवक्तृकत्वप्रयोज्यमप्रामाण्यमपनोदितमवसेयमितिभावः ।
ननु भवद्भिरहद्वक्तकत्वेनैवाऽऽगमस्य प्रामाण्यमभ्युपगम्यते तथा च नास्मन्मते तत्र प्रामाण्यं पुरुषवक्तृकत्वादित्याशङ्कतेमचाहदित्यादिना-समाधानमाह निश्चितेत्यादि-शब्दगतं प्रामाण्यं निश्चिताविपरीतप्रत्ययोत्पादकत्वमेव तच्च स्वत एव तत्र स्वीकर