________________
[ ४६ ] न परतः 'इन्द्रियमनोऽर्थसन्निकर्षो हि ज्ञानस्य हेतुः' इतिवचनात् परतो भावसिद्धेः, नचागमनित्यत्वेऽपि सर्वज्ञकल्पनावैयर्थ्य, तस्य विहितानुष्ठानफलत्वात् नचादृश्यत्वेनास्य फलकल्पनानुपपत्तिः, स्वर्गादिभिरतिप्रसङ्गात् न च ते सुखादिरूपत्वाद् दृश्या एवेति न्याय्यं प्रकृष्टसुख विशेषस्यादृश्यत्वात् न च सुखमात्रानुभवरूप एव स्वर्गः, अति प्रसङ्गात्, यतः कुतश्चित्तद्भावेन चोदनानर्थक्यापत्तेश्च । न च सुखसामान्यदर्शनाद् वः प्रकृष्टतद्विशेषसम्भवानुमानमबाधकं, ज्ञानसामान्यदर्शनेन प्रकृष्ट तद्विशेषसम्भवानुमानप्राप्तेः ।
"
"
9
प्रत्यक्षानुमानगोचरातिक्रान्तत्वं निरस्येदानीमवसर सङ्गति प्राप्तमागमगोचरातिक्रान्तत्वमपि निराकर्तुमुपक्रमते भगवान् ग्रन्थकारःआगमगोचरातिक्रान्तत्वमप्य सिद्धमिति । तमेवासिद्धिप्रकारमाह " स्वर्गेति ” – इदमागमवचनमेव सर्वज्ञे प्रमाणमवगन्तव्यम् यथाविधि तपोध्यानाद्यनुष्ठात्रा सिद्धतपोध्यानादिफलेन स्वर्गिणा केवलिना च भवितव्यमिति निश्चितम् तत्र यः केवली निष्पद्यते स एवास्माकं सर्वज्ञ इत्याशयेनाह - केवलिनश्चेति । नन्वागमं प्रमाणं मन्यमानेनैव भवता केवली सर्वज्ञः साध्यते सचागम एवाप्रमाणमस्माभिमन्यते तस्य पुरुषकर्तृकत्वादित्याशङ्कते - पुरुषेति पुरुषकर्तृकत्वात्-पुरुषसमवेतप्रयत्नविषयत्वात् । इदम्-आगमात्मकं वचनम्, अप्रमाणम्प्रमाणभिन्नम् । समाधत्ते-नेति, समाधानप्रकार माह तावदिति - पुरुषस्य तावदागमवक्तृत्वेन हेतुनाऽऽगमवचनस्य पुरुषकर्तृकत्वासिद्धेः, पुरुषे आगमवक्तृत्वमेव स्वीक्रियते नतु तत्कर्तृत्वमपीति पुरुषकर्तृकत्वेनाऽऽपादितमागमाप्रामाण्यं न क्षोदक्षममितिभावः । ननु भवेदियमनाप