________________
[४५] इति पूज्याचार्यप्रवर श्रीहरिभद्रसूरीश्वरविरचितायां सर्वज्ञसिद्धौ शास्त्रविशारद कविरत्न पूज्यपादाचार्यमहाराजश्रीविजयामृतसूरीश्वर
कृताय सर्वहिताऽऽख्यायां व्याख्यायां 'अनुमानप्रमाणातिक्रान्तत्वरूपसर्वज्ञत्वप्रतिषेधपूर्वपक्षखण्डनाभिधं'
द्वितीयं प्रकरणम् ।।
solfo १३-(मूलम् ) आगमगोचरातिक्रान्तत्वमप्य सिद्ध, 'स्वर्गकेवलार्थिना तपोध्यानादि कर्तव्यम्', इतिवचनमामाण्यात, केवलिनश्च सर्वज्ञत्वात् , पुरुषकर्तृत्वादिदमप्रमाणमितिचेत ? न तावद् वक्तृत्वेन तत्ककत्वासिद्धिः, नचैतत स्वतन्त्रविरोधि 'नमस्तीर्थाय' इतिवचनात् , नच पुरुषवक्तत्वमप्यस्थाप्रामाण्ये निमित्तं, वेदापामाण्य प्रसङ्गात् , नच तदवक्त का वेदाः, पुरुषव्यापारमन्तरेण नमस्येतद्वचनानुपलब्धेः आनपूर्वीनियतिभावादेश्वेतरत्रापि तुल्यत्वात् , नचाहद्वक्तकत्वेनास्य प्रामाण्यं, निश्चिताविपरीतप्रत्ययोत्पादकत्वेन कथश्चित् स्वत एव तदभ्युपगमाद्, अन्यथा तदनुपपत्तेः, अनुपपत्तिश्चास्य प्रामाणाभावात् , तस्य चोपादानेतरनिमित्तप्रभावेण स्वपराधीनत्वादर्थग्रहणपरिणामप्रत्ययान्तरानुभवतः, स्वपरत एव ज्ञप्तेः कर्मकरणनिष्पाद्यस्य तदुभयापेक्षित्वेन स्वपरतः स्वकार्यप्रवर्तनात् , नच विज्ञानस्यार्थपरिच्छेदलक्षणो ऽपि धर्मों व्यतिरिक्त एव, तस्यायमिति सम्बन्धानुपपत्तेः, कथञ्चिदव्यतिरेके च तद्वत्तस्यापि भावः, न च ज्ञानस्यापि