SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ __ [४४ । प्रसिद्धनदन्यमुख्यापेक्षत्वसााधनस्य तद्ग्राहकप्रमाणप्रसिद्धय- . भ्युपगमेऽन प्रकाशत्वात् । न साधनधर्माद्यसिद्धः साधर्म्यदृष्टान्तः, उभयधर्मप्रसिद्धेः । न साधनाव्यावृत्तादिरितरः, चैत्रे खव्यवहारादुभयनिवृत्तेरिति । पुनः साध्यस्य वैधर्म्यदृष्टान्तदोषमाशङ्कय व्युदस्यति-न वैधर्म्यदृष्टान्तेत्यादिना-ज्ञानजन्मातिप्रसङ्गादित्यन्तेन । अथ सिद्धान्ती प्रकारान्तरेणापि सर्वज्ञसिद्धि दर्शयितुमनुमानान्तरमुपक्रमते अथचेदमनुमान मिति । कुत्रचिदन्यत्र प्रसिद्धस्यैव वस्तुनोऽन्यत्र तस्सदृशे व्यवहारो. पचारः क्रियते यथा शौयक्रौर्यादिमत्त्वेन प्रसिद्धस्य सिंहस्य ताशि चैत्रेऽसिंहेऽपि सिंहव्यवहार इतिप्रसिद्ध केचित् सर्वज्ञमन्तरेण अनेकशास्त्रकलासंवेदनसमन्विते कस्मिंश्चित् पुरुष सर्वज्ञत्वव्यवहारोपचारस्य तदन्यमुख्यापेक्षितया तदन्यो यः स सर्वज्ञ इत्यर्थतः सर्वज्ञसिद्धिरितिभावः । उक्तानुमाने प्रतिज्ञायाः प्रत्यक्षादिविरोधित्वमाशङ्कय खण्डयति नात्रेत्यादिना हेतोरसिद्धत्वमनुयुज्य निराकरोति-नासिद्धो हेतुरित्यादिना। अनैकान्तिकत्वं हेतोरपनोदयितुमुपक्रमते - नानैकान्तिक इत्यादिना । विरुद्धत्व व्युदस्यति न विरुद्धविति, उपपादयति-दृष्टान्तवदित्यादिना । साधर्म्यदृष्टान्तस्य हेतुधर्माद्यसिद्धत्वं खण्यति-न साधनेत्यादि । विपक्षम्य साधनाव्यावृत्तत्वं वारयति-न साधनाव्यावृत्तेत्यादिना, निवृत्तेरितीत्यन्तेन । .
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy