________________
[ ४० ]
" शब्दोऽनित्यः " इत्यादी अनित्यत्वस्य जातित्वेन परिग्रहायदि दोषविवारयिषा तदा तत्रापि प्रत्यक्षत्वस्य तथात्वेन परिग्रहादोषो वार्यतामित्याह - अनित्यत्वजातीत्यादि । को दोष: ? इति, अस्मदुक्तानुमाने यदीष्टस्य प्रत्यक्षत्वस्यासिद्धिरुद्भाव्यते तदा शब्दानित्यत्वादावपि तथोद्भाव्यतामिति - शङ्कते - समाधत्ते च इष्टसिद्धिरितीत्यादि । समान एव दोषः इति ।
-
ag अनित्यत्वस्य लौकिकत्वेन सिद्धिरुद्भावयितुं शक्यते, प्रत्यक्षत्वस्य तथात्वाभावेन सा दुरुपपादैवेति पुनः शङ्कते - लौकिकेत्यादि । अलौकिकस्यापि वेदापौरुषेयत्वादेर्मेयत्वेन स्वीकृतवतस्तव नेदं शङ्कनं युक्तमिति समाधत्ते अलौकिकस्यापीत्यादिना -
-
पूर्वपक्षिणोदीरितं हेतोर्व्यभिचरितत्वं निराकरोति - " हेतुरित्यादि” । वस्तुधर्मत्वाद्धेतोरभावस्य तदापादितमप्रत्यक्षत्वमेव नास्ति । वस्तुधर्मत्वस्वीकारे च तस्य वस्तुत्वमेव नोपपद्यते अस्ति च तत्र वस्तुत्वं प्रत्यक्षमेवेत्यादि मनसि निधायाह- अभावस्येत्यादिनाप्रत्यक्षत्वात् इत्यन्तेन । साधनाव्यावृत्तत्वमपि हेतोरापादितं व्युदस्यति - अतद्धर्मस्येत्यादिना - अवस्तुत्ववतोऽत्यन्ता सतस्तुच्छस्य ज्ञेयत्वं नास्तीति भावः । कथचिदपि स्वीक्रियमाणं ज्ञेयत्वं निराकरोतिमानेनेत्यादि । प्रमाणेन यज्ज्ञातं भवति तत्रैव ज्ञेयत्वस्योपपत्तिरितिभावः । तदेवोपपादयति तुच्छेचेत्यादि । तदविशेषात् तुच्छा विशेषात् तद्वत् तुच्छवत् एतेन पूर्वोक्तमनुमानं सर्वथा निर्दुष्टमिति सर्वज्ञस्य नानुमानगोचरातिक्रान्तत्वमित्याकलनीयम् ।
•
११ ( मूलम् ) अपरस्त्वाह, सर्वज्ञज्ञानस्य ज्ञेयत्वेऽपि प्रत्यक्षत्वानुपपत्तेः, तेनार्थ प्रत्यक्षत्वात्, तत्प्रत्यक्षत्वे च तद