SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ [४१ ]. प्रत्यक्षत्वप्रसङ्गात् , तदन्यसर्वज्ञप्रत्यक्षत्वे चानवस्थापत्तेभिचार इति, तदप्यसत् , तस्याथग्रहणरूपस्य स्वसंविदिनत्वे नोक्तदोषानुपपत्तेरुभयप्रत्यक्षत्वात् , अन्यथाऽर्थप्रत्यक्षत्वासिद्धेः हृल्लेखगन्यस्याविकृतत्वेनात्मनो दर्शिनो दर्शनायोगात् , विकतत्वे चार्थ पश्यतस्तद्रिक्रियैव चिद्रूपा ज्ञानमिति सर्वज्ञत्वानुपपत्तेश्च । __ अपस्त्वाह हेतुर्येनैव सहाविनाभूतो दृष्टस्तस्यैत गमको भवति, यथा धूमोऽग्नेः, नसद्भावमात्रात् यस्य कस्यचित् , यथा स एव धूमः पानीयस्य, न चातीन्द्रियेषु भावेषु प्रत्यक्षवाविनाभावि ज्ञेयत्वं दृष्टं, कथं तत् तेषु तद् गमयेत् ? अत्रोच्यते, सामान्यतो दृष्टानुमाननीत्या तत् तेषु तद् गमयेत् इति, यथा गतिमानादित्यो देशान्तरप्राप्तेः देवदत्तवदित्यत्र, तथाहि-न दिनकरे गतिमत्वेन देशान्तरमाप्तिरविनाभूता दृष्टा, अथ चासौ तद् गमयति देवदत्ते दृष्टेति सा गमयतीतिचेत्, घटेऽपि प्रत्यक्षत्वेन ज्ञेयत्वमविनाभावि दृष्टमेवेति समानमेतत् । अतीन्द्रियप्रत्यक्षत्वेन न दृष्टमिति चेत्, देवदत्तेऽपि न तथा गगनगतिमत्त्वेन देशान्तरमाप्तिरितिसमानमेव । न साधर्म्यदृष्टान्तदोषः, जात्यन्तरप्रत्यक्षेण तत्र प्रत्यक्षत्वासिद्धावपि सामान्येन प्रत्यक्षत्वसिद्धेः न्याय्यत्वमेव विशेषानुगमाभावात् ।
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy