SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ [ ३९ ] १० ( मूलम् ) अत्रोच्यते यत्तावदुक्तमप्रसिद्धविशेषणसादप्रसिद्धविशेषणः पक्षः इति एतदयुक्तम्, अनुमानोच्छेदप्रसङ्गात्, सर्वत्राप्रसिद्ध विशेषणपक्षाभासत्वापत्तेः, एवं ह्यनित्यः शब्द इत्यादावपि वर्णाद्यात्मक व्यक्तिसमवाय्य नित्यत्वेनानित्यत्वं साधयितुमिष्टं, न तत्, क्वचित् प्रसिद्धमित्यपि वक्तुं शक्यत्वात् अनित्यत्वजातिपरिग्रहाददोष इतिचेत, इतरत्रापि प्रत्यक्षत्वजातिपरिग्रहे को दोषः ? इष्टामिद्धिरिति चेत्, शब्दानित्यत्वादौ समान एव दोषः, लौकिकत्वादनित्यत्वादेरसमानता इतिचेत्, न, अलौकिकस्यापि वेदापौरुषेयत्वादेमेयत्वेन त्वयाऽप्यङ्गीकृतत्वात् हेतुरप्यदुष्टः, अभावस्याप्रत्यक्षत्वासिद्धेर्वस्तुधर्मत्वात्, अन्यथा वस्त्वनुपपत्तेः, तस्य च प्रत्यक्षत्वात्, अतद्धर्मस्य चात्यन्तास तो ज्ञेयत्वायोगात्, मानेन ज्ञायमानस्य तदुपपत्तेः, तुच्छे च मानप्रवृत्यसम्भवादभावाख्यमानस्य च तदविशेषात् तद्वदप्रवृत्तेः । 9 अथ सिद्धान्ती समाधातुमुपक्रमते - अत्रोच्यते - उपपादयतियत्तावदुक्तमित्यादिना वक्तुं शक्यत्वादित्यन्तेन । पक्षेऽप्रसिद्धविशेषणत्वस्य दोषत्वस्वीकारे शब्दोऽनित्यः कार्यत्वात् ( अनित्यत्वात् ) इत्यादावपि वर्णाद्यात्मकव्यक्तिसमवेतत्वेनानित्यत्वेनैवानित्यत्वस्य साधयितुमिष्टत्वात्तस्य पुनरनित्यत्वस्य क्वचिदप्यप्रसिद्धतया पूर्व प्रक्षिप्तस्य दोषस्य दुरुद्धरत्वात् सर्वत्रानुमानोच्छेद एव स्यादिति निर्गलितार्थः ।
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy