SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ [३८] निधायाह-नचेत्यादि, विवादानुपपत्तेश्चेत्यन्तेन ग्रन्थेन । यत्पूर्व सर्वज्ञस्यानुमानगोचरातिक्रान्तत्वमुपपादितं पूर्वपक्षिणा तदिदानी खण्डयितुमुपक्रमते सिद्धान्ती-अनुमानगोचरेत्यादिना-" विपक्षो न किश्चिदित्यनुमानसद्भावात् " इत्यन्तेन । धर्माद्यात्मसु सर्वेषु पक्षेषु ज्ञेयत्वेन हेतुना किश्चिन्निष्ठप्रत्यक्षविषयत्वानुमितिगोचरतायाः सर्वज्ञेऽपि निराबाधैवेतिभावः । ननु “ सर्वे धर्मादयः कस्यचित् प्रत्यक्षा" इत्यत्रातीन्द्रियप्रत्यक्षेणैव प्रत्यक्षं सिषाधयिषितम् , तच्च पुनर्न कस्यचिदपि प्रसिद्धमितिपक्षस्याप्रसिद्धविशेषणत्वादित्याप्रयासिद्धथात्मनो दोषस्य दुरुद्धरत्वात् पूर्वोक्तमनुमानमनुपपन्नमेवेत्याशङ्कते पूर्वपक्षी अत्राहेत्यादि, किश्च ज्ञेयत्वं यदि भावमात्रवृत्तितया व्यवतिष्ठेत तदा तेन सद्धेतुना पूर्वोक्तानुमितिर्भवेद पि, परन्तु ज्ञेयत्वम्य प्रत्यक्षत्वात्मसाध्याभाववत्यभावेऽपि वर्तमानतया व्यभिचारित्वेन तस्य सद्धेतुत्वामावादित्याह-हेतुरप्यनैकान्तिक इत्यादिना । किश्च पर्वतो वह्निमान् धूमादित्यादौ दृष्टान्ते महानसे हेतुसाध्ययोधूमवह्नयोरुभयोरवस्थितिरावश्यकी, अन्यथा (अन्यतरस्य तत्रासत्त्वे ) दृष्टान्तत्वमेब विप्लुतं भवति तथाऽत्रापि दृष्टान्तभूते घटे साध्यस्य प्रत्यक्षत्वस्य स्थित्या भाव्यं परन्तु तत्र जात्यन्तरम्य घटत्वस्य प्रत्यक्षेण प्रत्यक्षत्वात्मनः साध्यस्य विरहाद् दृष्टान्तस्य साध्यवैकल्यात् पूर्वोक्तमनुमानमसदित्याह-दृष्टान्तोऽपीत्यादि । किञ्च विपक्षस्य हृदादेधूमाभाववत्वेन साधनव्यावृत्तत्वं सर्वानुभवसिद्धं, प्रकृते तु विपक्षे न किञ्चिदितितुच्छे ज्ञेयत्वस्य हेतोः सत्त्वात् हेतौ विपक्षव्यावृत्तत्वाभावात् पक्षसत्त्वसपक्षसत्त्वविपक्षासत्त्वासत्प्रतिपक्षितत्वाबाधितत्वात्म-पञ्चरूपोपपन्नत्वाभावेन तेन नानुमानं भवितुमर्हतीत्याह-इतरोऽपीत्यादि।
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy