SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ [ ३७ ] प्राह्मग्रहीतृव्यतिरिक्तनिमित्तत्वेन विवक्षा त्यज्यते तथैव तस्य विपक्षावृत्तित्वव्यवस्थानेऽपि कर्मक्ष्यादेर्निमित्तत्वं न स्वीकरणीयं " यश्वोभयोः समो दोष: परीहारोऽपि तादृश: इतिन्यायादितिभावः । ܕܕ ९ ( मूलम् ) नचाशेषपदार्थग्राह्यतीन्द्रियप्रत्यक्षगोचरातिक्रान्तत्वमस्य, उभयासिद्धेः अभ्युपगमविरोधात् विवादानुपपत्तेश्च अनुमानगोचरातिक्रान्तत्वं पुनरसिद्धमेव, सर्वे धर्मादयः कस्यचित् प्रत्यक्षाः ज्ञेयत्वाद्, घटवत्, विपक्षी न किञ्चिदित्यनुमानसद्भावात् । अत्राह - नेदमनुभानम्, तदाभासत्वात्, इह प्रसिद्ध विशेषणत्वादप्रसिद्धविशेषणः पक्षः, तथाहि सर्वे धर्मादयः कस्यचित् प्रत्यक्षा इत्यत्रातीन्द्रियप्रत्यक्षेण प्रत्यक्षत्वं साधयितुमिष्टम्, न तत् कस्यचित् प्रसिद्धमिति, हेतुरप्यनैकान्तिकः, अप्रत्यक्षस्याप्यभावस्य ज्ञेयत्वोपपत्तेः, दृष्टान्तोऽपि साध्यविकलः, जात्यन्तरप्रत्यक्षेण प्रत्यक्षत्वासिद्धेः, इतरोऽपि साधनाव्यावृत्तः न किञ्चिदिति तुच्छेऽपि ज्ञेयत्वानिवृत्तेरिति । अशेषपदार्थग्राह्यतीन्द्रिय प्रत्यक्षं हि यदि सर्वाण्यपि वस्तूनि गोचरीकरोति तर्ह्यवश्यं सर्वज्ञमपि गोचरीकुर्यादेव, अन्यथा प्रत्यक्षस्य समस्तपदार्थप्राहित्वं सर्वज्ञाग्राहकत्वमित्युभयं विरुद्धं स्यात्, किन सर्वज्ञेऽशेषपदार्थमाह्यतीन्द्रियप्रत्यक्षगोचरातिक्रान्तत्वस्वीकारे सर्वज्ञसम्बन्धी विवादोऽपि निर्मूलतयाऽनुपपन्नः स्यादित्येतन्मनसि
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy