SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ [३६] भवेत्, स्वज्ञाने नान्यधीहेतुत्वात् ज्ञापकस्य ज्ञातज्ञापनं धर्मः स्वीक्रियते, धूमादेस्तदीयज्ञानपूर्वकवन्यादिज्ञानजननदर्शनात्, इन्द्रियाणामपि तत्स्वीकारे अव्यवधानेन वस्तुप्रतीत्यनुपपत्तिः, एवञ्च झापकधर्मातिक्रमेण ज्ञापकत्वाभावतोऽर्थेन तेषा ज्ञाप्यज्ञापकभावसम्बन्धोऽनुपपन्न एवेत्यात्याशङ्कते पूर्वपक्षी-आह-एवमप्यमीषामित्यादिना, समाधत्ते-नेत्यादिना । अज्ञातज्ञापकत्वस्वभावत्वेऽपीन्द्रियादिनां स्वभाववैचित्र्यादेव झाप्यज्ञापकभावस्वीकारे नैव पूर्वोदीरिताऽनुपपत्तिरिति, एतदेवो. पपादयति-ज्ञापकस्वभावत्वं चेहेत्यादिना-ज्ञातृत्वायोगादित्यन्तेन । यथा धूमहेतुकवन्यनुमाने धूमे धूममात्रत्वमपेक्ष्यते न पुनस्तत्र नीलत्वं कपिशत्वं वाप्यपेक्ष्यतेऽनुचितत्वात्तथाप्रकृतेऽपि इन्द्रियमनोनिमित्तविज्ञाने ग्राह्यग्रहीतृव्यतिरिक्तनिमित्तमात्रत्वेनैव परोक्षमात्रताऽपेक्ष्यते, इत्यत्रापि सर्वसाधाभिनिवेशोऽनुचित एवेतिप्रति. पादयति सिद्धान्ती-किश्चेत्या दि-सर्वसाधर्म्याभिनिवेश इत्यन्तेन। ननु ग्राह्यग्रहीतृव्यतिरिक्तनिमितमात्रत्वस्य हेतोर्यदि विपक्षत्वेन विवक्षिते केवलेऽवस्थितिस्तदा साध्याभाववत्केवलवृत्तित्वेन व्यभिचारित्वं भवेत्, सैव नास्तीत्याह-नचैवमिति । अनवस्थाने हेतुमाहप्राधप्रत्रित्यादि। ननु केवलस्य प्राह्यग्रहीतृभिन्नस्य कर्मक्षयाद्यात्मनः कस्यचिन्निमित्तस्य सत्यामपेक्षायां प्राह्यग्रहीतृमात्रापेक्षित्वमनुपपन्नमित्याशक्य समाधत्ते-कर्मक्षयादेश्वेत्यादिना । इन्द्रियमनोनिमित्तप्रत्यक्षात्मनि पक्षेऽपि ग्राह्यग्रहीतृव्यतिरिक्तस्य क्षयोपशमस्य निमित्तत्वेन पक्षवृत्तित्वमपि हेतोदुर्लभं भवेदितिहेतोः पक्षनिष्ठत्वव्यवस्थाने क्षयोपशमस्य
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy