________________
[३५] तथासत्यभावात् , अक्षेपेणैवार्थप्रतीतेरिति, न, स्वभाववैचिज्यतस्तद्भावसिद्धेरज्ञातज्ञापकस्वभारत्वात् , ज्ञापकस्वभावत्वं चेह प्रयोजकम् , अन्यथा कार्ये व्यतिरेकतस्तत्कारणत्वाङ्गीकरणेऽपि तत्वतस्तद्द्व देतेषां हेतुधर्मातिक्रमः, बुद्धयादियुतत्वाभ्युपगमाच्च, नचैतदनुपपत्तिज्ञप्तौ, तेषामेव त्वचेतनत्वेन ज्ञातृत्वायोगात् , किञ्च-परोक्षमात्रता चेह प्रतिपादयितुमिष्टा ग्राह्य ग्रहोतृव्यतिरिक्तनिमित्तमात्रत्वेनेत्यनुचितः सर्वसाधाभिनिवेशः, नचैवं केवलं, ग्राह्यग्रहीतृमात्रापेक्षितत्वात् , कर्मक्षयादेश्व क्षयोपशमादितुल्यत्वादित्यल प्रसङ्गेन ।
ननु यदीन्द्रियादीनामर्थस्वभावत्वकार्यत्वं न स्वीक्रियते तर्हि तेषामर्थन सम्बन्धस्यैवासिद्धिः सम्बन्धासिद्धिज्ञाने च तेषां लिङ्गत्वमेवानुपपन्नमित्याशङ्कते-अर्थस्वभावेत्यादिना--समाधत्ते-नेत्यादि । इन्द्रियाणामर्थेन ज्ञाप्यज्ञापकभावसम्बन्धस्य सकलसिद्धान्तसिद्धतयाऽर्थम्वभावत्वकार्यत्वाभावेऽपि समापादितायाः सम्बन्धासिद्धेरेवासिद्धिरितिभावः । ननु सामग्रीमपेक्ष्य ग्राह्यवदिन्द्रियाणां ज्ञानजननस्वभावत्वमेवास्ति न ज्ञापकत्वमिति तेषामर्थेन ज्ञाप्यज्ञापक. भावसम्बधोऽनुपपन्न इत्याशङ्कते-नच सामग्र्यपेक्षयेति, समाधत्तसर्वथेत्यादि, यदीन्द्रियाणां सर्वथा ज्ञानजननस्वभावाभिन्नस्वभावत्वं तर्हि ततोऽर्थप्रतीतिवज्ज्ञानजननस्वभावत्व प्रतीतिरपि दुर्वाग, स्वभावभेदस्वीकारे च तेषां ज्ञापकत्वेनैव काचिद्विमति रितिभावः ।
ननु ज्ञापकत्वे सत्येव इन्द्रियाणामर्थेन ज्ञाप्यज्ञापकभावसम्बन्धः स्वीकरणीयतामायाति, ज्ञापकत्वं च तेषु ज्ञापकधर्मानतिक्रमे एव