________________
[३४] हेतुमाह-अतत्स्वेति -अतत्स्वभावस्य - असाक्षात्परिच्छेदस्वभावस्य-उत्पत्तौ सत्याम् तस्य तत्स्वभावत्वविरोधात्-साक्षात्परिच्छेदस्वभावत्वविरोधादित्यक्षरार्थः । अयं भावः-यद्वस्तु यादृशस्वमावंसमुत्पद्यमानं भवति तत्तादृशस्वभावमेव पश्चादवलोक्यते, एवञ्च प्रकृतेऽपि यदीन्द्रियैर्ज्ञानमसाक्षात्परिच्छेदस्वाभावं समुत्पद्येत तदा पश्चात् साक्षात्परिच्छेदस्वभावता न स्यादितिभावः। अधिकृतप्रत्यक्षेण सम्पूर्णार्थप्रतीतिरपि दुःशकेत्याह-नचेत्यादिना। अनेनइन्द्रियमनोनिमित्तविज्ञानेन, सम्पूर्णवस्त्वगमः-सम्पूर्ण (सर्वावयवावच्छिन्नपदार्थबोधः, नच नैव भवतीत्यर्थः । तत्र हेतुमाह-नीलादेरपीत्यादिना-तारतम्यव्यावृत्त्यादेरपरिच्छेदात् नीलगुणविशिष्टघटादेरपि तारतम्यव्यावृत्तिविशिष्टस्य सम्पूर्णस्याननुभवात् नरसिंहेसिंहज्ञानं यथा न सम्पूर्णवस्तुबोधात्मकन्तथैव यस्य कस्यचिद् घटादेरसमस्तदेशज्ञानं न सम्पूर्णघटबोधात्मकमिति सिद्धमिन्द्रियादिनिमित्तज्ञानस्यासम्पूर्णवस्तुपरिच्छेदात्मकत्वमिति - विरोधित्वमितिभावः ॥ ७ ॥
८ ( मूलम् ) अर्थस्वभावत्वकार्यत्वाभावे इन्द्रियादीनां तेन प्रतिबन्धासिद्धेः, तदवगमे तेषां लिङ्गत्वानुपपत्तिरिति चेत, न, ज्ञाप्यज्ञापकभावेन प्रतिबन्धासिद्धयसिद्धेः, नच सामय्यपेक्षया ग्राह्यवत् ज्ञानजननस्वभावत्वमेषाम् , सर्वथातदभिन्नस्वभावत्वे ततस्तत्प्रतीतिप्रसङ्गात् , स्वभावभेदे च सिद्धमेषां ज्ञापकत्वमिति ।
आह-एवमप्यमीषां ज्ञापकधर्मातिक्रमः, अज्ञातज्ञापनात् . नहि धूमादावि तज्ञानादिपुरस्सरमर्थज्ञान,