SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ [ ३३ ] एवञ्च साधनाव्यावृत्तत्वात् व्यावृत्तिरभावः, न व्यावृत्तिरव्यावृत्तिः साधनस्य अव्यावृत्तिः साधनाव्यावृत्तिः साधनसत्त्वम् आदिपदेन साध्याव्यावृत्तिस्तथाच साध्यहेतुमत्त्वात् न केवलं विपक्ष इति - शङ्कां निराकुर्वन्नाह-न साधनाव्यावृत्त्यादीति । केवले साधनाव्यावृत्त्यादिना तस्मात् केवलात् साध्यहेतूभयस्यापि निवृत्तत्वात्, स एव विपक्षो भवति यो निश्चित साध्याभाववान् अर्थतो हेत्वभाववानपि भवेत् यः साध्याभावप्रकारकनिश्वयविशेष्यः हेत्वभावप्रकारकनिश्चय विशेष्यश्च स विपक्षः, केवलस्य च प्रकारक हेत्वभावप्रकारक निश्चयविशेष्यतया नान्यः कश्चन विपक्ष: सिद्धयतीति केवल साक्षादर्थ परिच्छेदात्मकं सम्पूर्णार्थप्रतीत्यात्मकञ्च भवतीति तत् प्रत्यक्षमेव असाक्षाद सम्पूर्ण वस्तु परिच्छेदात्मकं पुनरप्रत्यक्षं भवतीति प्रागावेदितमेव । साध्याभाव पुनरपि प्रतिज्ञायां प्रत्यक्षविरोधित्वमुपक्षेप्तुं प्रयतमानः पूर्वपक्षी प्रत्यवतिष्ठिते - आहेति । अधिकृतप्रत्यक्षेण - इन्द्रियमनोनिमित्तविज्ञानात्मकप्रत्यक्षेणापि साक्षादर्थपरिच्छेदो भवतीति कथमुक्तम्असाक्षाद सम्पूर्ण वस्तु परिच्छेदात्मकत्वादिति समाधत्ते न इति । हेतुमाह - अक्षैर्व्यवधानात् अक्षैरिन्द्रियैर्व्यवधानात्-व्यवायात्. साक्षादर्थपरिच्छेदाभावेन प्रत्यक्षत्वाभावात् तथाचेन्द्रियमनोनिमित्तं विज्ञानं न प्रत्यक्षमेवेति न प्रतिज्ञाविरोधः । " पुनः पूर्वपक्षी शङ्कते - ज्ञानोत्पत्तिरिति - तेभ्य इन्द्रियेभ्यो ज्ञानोत्पत्तिर्भवति, तत्परिच्छित्तिः ज्ञानपरिच्छेदः पुनः साक्षादेव भवति इतिचेत्, समाधत्ते-नेति, तद्व्यतिरेकेण
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy