SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ [३२] पितप्रत्ययात्मकत्वप्रतीतेश्च ।। ___ दृष्टान्तो यदि साध्यादिविरहितो भवति तदा तेन दृष्टान्तेन हेतुमाध्ययोः सामानाधिकरण्यविरहप्रयोजकेन तादृशसाध्यहेतुकानुमित्यभावप्रयोजकेन भूयते प्रकृतदृष्टान्तस्तु न साध्यादिविकल:साध्यादिविरहितः, तमेव साध्यादिवैकल्याभावं व्युत्पादयति धूमा. दग्नेरित्यादिना-धूमज्ञानज्ञाप्यमग्निज्ञानमेव दृष्टान्त:, तच्च ज्ञानमनुमित्यात्मकं भवतीति निर्विवादमप्रत्यक्षत्वात्मकसाध्यस्य ग्राह्यग्रहीतृव्यतिरिक्तधूमात्मकनिमित्तोत्थापितप्रत्ययात्मकत्वात्मकहेतोश्च सत्त्वेन प्रतीतेदृष्टान्तावच्छेदेन हेतुसाध्ययोः सामानाधिकरण्यनिश्चयादनुमितिरुपपद्यते इति बोध्यम् ॥ ६॥ ७-(मलम् ) न साधनाव्यावृत्यादि, केवलादुभयस्यापि निवृत्तेः, आत्मनः साक्षादर्थपरिच्छेदात् सम्पूर्णार्थप्रतीतेश्च ॥ __ आह-अधिकृतप्रत्यक्षेणापि साक्षादर्थपरिच्छित्तिः, न, अक्षैर्व्यवधानात् , तदभावेन तदभावात् , ज्ञानोपत्तिस्तेभ्यः, तत्परिच्छित्तिस्तु साक्षादेवेतिचेत् न, तद्व्यतिरेकेण तदसिद्धेः, अतत्स्वभावस्योत्पत्तौ पुनस्तत्स्वभावत्वविरोधात्, नचानेन सम्पूर्णवस्त्वधगमः, नीलादेरपि तारतम्मव्यावृत्त्याद्यपरिच्छित्तस्तथाननुभवात् , नरसिंहे सिंहज्ञानतुल्यत्वादिति ॥ ७॥ ननु केवलं विपक्षमवलम्ब्यैव व्यभिचारादिदोषवारणं विहितम् परमद्यापि केवलस्य विपक्षत्वमेवासिद्धम् , साध्यास्याप्रत्यक्षत्वस्य प्रागुक्तस्य हेतोश्च केवले सत्त्वेन तस्य विपक्षत्वाभावात् ।
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy