SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ [३१] वारणम् , इन्द्रियमनपेक्ष्य केवलं व्याप्तिज्ञानात्मकमान्तरं कारणमपेक्ष्य जायमानायामनुमितौ अप्रत्यक्षत्वात्मकसाध्यसत्त्वेऽपि ग्राह्यग्रहीतृव्यतिरिक्तनिमित्तोत्थापितप्रत्ययात्मकत्वरूपहेतोरभावात् । नच प्रह (विषय) ग्रहीत (ज्ञाता) व्यतिरिक्तत्याप्तिज्ञानात्मकनिमित्तोस्थापितप्रत्ययात्मकत्वमस्त्येवेति वाच्यम् ? गुणगुणिनोरभेदस्य बहुवादिसम्मततया तस्यापि (व्याप्तिज्ञानस्यापि) ग्रहीत्रनतिरिक्तत्वादितिचेदित्याशङ्कय निराकुरुते-इन्द्रियार्थीपलब्धीत्या दिनेति । महानसादौ वह्निधूमचाक्षुषानन्तरं पर्वतादौ धूमचाक्षुषादेव व्याप्तिस्मरणा. देरुत्पत्त्याऽनुमानादेरपीन्द्रियनिमित्तोत्थापितत्त्वादिति भावः। .. अथैवमपि ग्राह्य पहीतृव्यतिरिक्तनिमित्तोत्थापितप्रत्ययात्मकत्वहेतुघटकनिमित्तपदेन साक्षानिमित्तेनोत्थापितत्वमेव निवेश्यते तथाचानुमानादौ साक्षादिन्द्रियनिमित्तोत्थापितत्वाभावेन ग्राह्यग्रहीतृव्यतिरिक्तसाक्षानिमित्तोत्थापितप्रत्ययात्मकत्वाभाव इतिशङ्कित्वा समाधत्तेविशेषेत्यादि-समव्याप्तत्वेन रूपेण हेतोर्विरुद्धत्वेऽपि वस्तुगत्या हेतुसाध्ययोर्विरोधो नास्तीतिभावः । विशेषरूपेणापि हेतुसाध्ययोविरोध. स्वीकारे समानाधिकरणयोरपि तयोः किश्चिद्रूपेण विरोधस्य सत्त्वाहेतुव्यवहारस्यैवोच्छेदप्रसङ्गः । वह्विधूमयोरपि महानसीयधूमत्वेन पर्वतीयवह्नित्वेन विरोधाभृमस्य विरुद्धत्वमापद्येत । एतत्सर्व मनसि निधायाह-अन्यथेत्यादि । अन्यथा-विशेषविरुद्धस्यापि तत्त्वतो विरुद्धत्वे । भावादेव-सत्त्वादेव । हेतुव्यवहारस्य हेतुपदवाच्यत्वव्यपदेशस्य उच्छेदप्रसङ्गात्-विनाशप्रसक्तेः ॥ ५ ॥ ६-(मूलम् ) दृष्टान्तोऽपि न साध्यादिविकलः, धूमादग्नेनिस्याप्रत्यक्षत्वसिद्धेः, ग्राह्यग्रहीतव्यतिरिक्तनिमित्तोत्था
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy