SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ [३०] पकभावापन्नान्वयव्याप्तिविषयताशालिग्रहत्वव्यापिका या प्रतिबध्यता तन्निरूपितप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकधर्मवत्त्वं फलितं बोध्यम् ॥ ४॥ ५-(मूलम् ) न विरुद्धोऽपि विपक्ष एवाभावात् । इन्द्रियोपलब्धिनिमित्तमन्तराव्याप्त्यन्तराद्यपेक्षारूपत्वस्य प्रतीतिबाधितत्वात् ; विशेषविरुद्धस्य तत्त्वतोऽविरुद्धत्वात् , अन्यथा सर्वत्र भावादेव च हेतुव्यवहारोच्छेदप्रसङ्गात् ॥५॥ ननु साध्याभावव्याप्यत्वं हेतुनिष्ठं विरोध उच्यते यथा 'अयं गौः अश्वत्वात्' इत्यादावश्वत्वनिष्ठं गोत्वाभावव्याप्यत्वमेव विरोधः यत्र यत्र धूमस्तत्र तत्र वह्निरितिधूमस्य वह्निव्याप्यत्वमिव यत्र यत्र अश्वत्वं तत्र तत्र गोत्वाभाव इत्यश्वत्वे गोत्वाभावव्याप्यत्वमवसे यम । एवञ्च प्रत्यक्षत्वात्मकसाध्याभावव्याप्यत्वस्य प्रकृतहेतौ सत्त्वाद्विरुद्धेन हेतुना कथमुक्तानुमितिः स्यादिति शङ्कायामाह-न विरुद्धोऽपीति ग्राह्यग्रहीतृव्यतिरिक्तनिमित्तोत्थापितप्रत्ययात्मकवात्मकः प्रकृतो हेतुर्विरुद्धोऽपि न भवितुमर्हति, कुत इत्याकाङ्कायामाह-'विपक्षएवाभावात्' इति। विपक्षमात्रवृत्तित्वाभावादित्यर्थः । विपक्षमात्रवृत्तित्वं विरोधः विपक्षमात्रवृत्ती हेतुरेव विरुद्ध उच्यते, गोत्वाभावप्रकारकनिश्चयविशेष्याश्वसमवेतस्याश्वत्वस्य विरुद्धत्वमभिधीयते। प्रकृते च प्रत्यक्षत्वात्मकसाध्याभावप्रकारकनिश्चयविशेष्यकेवलात्मकविपक्षवृत्तित्वाभावानोक्तहेतोविरुद्धत्वशङ्कालेशोऽपीति भावः । ननु साध्याधिकरणेऽवृत्तिहेतुर्विरुद्धयतयैव प्रसिद्धतीति सर्वसम्मतम् , एवञ्च प्रकृतसमव्याप्तहेतोविरुद्धत्वमिनसहस्रेणाप्यशक्य
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy