SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ [२९] ४-(मूलम् ) नानकान्तिकः, यथोदितविपक्षेऽभावात् , नहि केवले प्राह्यग्रहीतृव्यतिरिक्तनिमित्तोत्थापितमत्ययात्मकत्वमस्ति, तस्य तथाविधात्मार्थ निबन्धनत्वात् ॥ ननु साध्याभावाधिकरणनिरूपितवृत्तित्वात्मकव्यभिचारात्मकदोषविशिष्टेन व्यभिचारिणा हेतुनाऽनुमितिर्न भवति यथा 'द्रव्यं सत्त्वात् ' इत्यादौ सत्त्वस्य द्रव्यत्वाभावाधिकरणगुणनिरूपितवृत्तितावत्त्वात् तथैव प्रकृतेऽपि हेतुर्यदि प्रत्यक्षत्वात्मकसाध्याभावाधिकरणस्मदीय प्रत्यक्षनिरूपितवृत्तितावानस्ति तदाऽसावपि व्यभिचारीति कथमनेनाप्रत्यक्षत्वानुमितिरिन्द्रियमनोनिमित्तविज्ञानात्मकपक्षविशेष्यिकेतिचेत्तत्राह-नानैकान्तिक इति । निश्चितसाध्याभाववान् विपक्ष उच्यते, साध्याभावप्रकारकनिश्वयविशेष्य इति यावत् । अस्मदीयप्रत्यक्षस्य प्रत्यक्षत्वात्मकसाध्याभावप्रकारकनिश्चय विशेष्यत्वाभावात् , यच्च साध्याभावप्रकारकनिश्चयविशेष्यं केवलन्तन्निरूपितवृत्तित्वस्य प्रकृते हेतावसत्त्वेनानैकान्तिकत्वाभावात् , केवलमपि कथं न ग्राह्यग्रहीतृव्यतिरिक्तनिमित्तोत्थापितप्रत्ययात्मकमितिचेत् तत्राह-तस्येति । तस्य-केवलस्य, तथाविधस्तादृशः सर्वज्ञश्वासावात्मा तथाविधात्मा. । सचासावर्थो विषयश्च तो निबन्धनं निमित्तं यस्य तस्य भावस्तत्त्वम्. तस्मात् तथेति आत्मा स्वयमेव नत्विन्द्रियादिसापेक्षमपि यत्र विषयं गृह्णाति तज्ज्ञानं केवलमुच्यते तच्च केवलं सर्वज्ञस्यैव तीर्थकृदादेर्भवति न तु यस्य कस्यचिदपीत्यवसेयम् । अनैकान्तिकत्वस्य साधारणासाधारणानुपसंहारित्वभेदेन त्रिविधत्वेऽपि साधारणत्वमेवाशङ्कितं निराकृतश्च वेदितव्यम् । साधारणत्वश्च प्रकृतसाध्ये साध्यतावच्छेदकप्रकारकग्रहत्वाऽव्यापिका प्रकृतहेतौ प्रकृतहेतुतावच्छेदकप्रकारक ग्रहत्वाऽव्यापिका निरूप्यनिरू
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy