________________
[२८] व्यत्वासिद्धिभेदेनासिद्धिस्त्रिविधा भवत्यतो ऽसिद्धाऽऽख्यो हेतुरपि त्रिविध उच्यते । आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासिद्धश्चेति । आश्रयासिद्धयाद्यन्यतमत्वमसिद्धिसामान्यलक्षणम् । आश्रयासिद्धिस्तु पक्षतावच्छेदकाभाववत्पक्षः, यथा काञ्चनमयपर्वतो वह्निमान् इत्यत्र काश्चनमयत्वाभाववत्पर्वतरूपाश्रयासिद्धिः, तन्निश्चय:-काश्चनमयस्वाभाववान् पर्वतः इत्याकारकः काञ्चनमयपर्वत इति पक्षज्ञाने विरोधी, तथाच पक्षघटिततयाऽनुमितौ परामर्शे च प्रतिबन्धक इति ध्येयम् । किश्च न केवलं पक्षे पक्षतावच्छेदकाभाव आश्रयासिद्धिः, किन्तु पक्षे पक्षतावच्छेदका भावव्याप्यः, पक्षे पक्षतावच्छेदकवदन्योन्याभावः, पक्षे तादृशान्योन्याभावव्याप्यः, पक्षतावच्छेदके पक्षतावच्छेदकतावच्छेदकाभावः, पक्षतावच्छेदके पक्षतावच्छेदकताभावव्याप्यः, पक्षतावच्छेदके पक्षतावच्छेदकवदन्योन्याभावः, पक्षतावच्छेदके तादृशान्योन्याभावव्याप्यः, पक्षतापच्छेदकाभाववान् पक्षः, तव्याप्यवान् पक्षः, पक्षतावच्छेदकतावच्छेदकाभाववत् पक्षतावच्छेदकम् , तादृशाभावव्याप्यवत् पक्षतावच्छेदकम् , पक्षतावच्छेदकतावच्छेदकवदन्योन्याभाववत् पक्षतावच्छेदकम् , तव्याप्यवत्पक्षतावच्छेदकमित्यादिरप्याश्रयासिद्धि. रवसेया विद्वद्भिः । एवञ्च यद्रूपावच्छिन्नविषयित्वं पक्षतावच्छेदकप्रकारकपक्षविशेष्यकग्रहप्रतिबन्धकतावच्छेदकं तद्रूपक्त्त्वमिति तल्लक्षणं फलितम् । एवं यद्रूपावच्छिन्नविषयित्वं प्रकृतपक्षे पक्षतावच्छेदकवैशिष्ट्यावगा हिग्रहत्वाऽव्यापकप्रकृतहेतोः । प्रकृतहेतुतावच्छेदकप्रकारकग्रहत्वाऽव्यापकप्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यतानिरू'पितप्रकृतहेतुतावच्छेदकावच्छिन्नप्रकारताशालिग्रहत्वव्यापकप्रतिनध्यतानिरूपितप्रतिबन्धकतावच्छेदकत्वं स्वरूपासिद्धिलक्षणमवसेयम् ॥३॥