________________
[२७] न प्रत्यक्षविरोधिनीति फलितम् । प्रत्यक्षादीत्यत्राऽऽदिपदेनानुमानादेग्रहणम्। तथा चानुमानादिविरोधोऽप्यस्यां प्रतिज्ञायां निवारितो बोद्धव्यः, विरोधिनोऽनुमानादेरनवतारादितिभावः। ॥२॥
३-( मूलम् ) नासिद्धो हेतुः धर्मिधर्मत्वात् , यथोदितविज्ञानस्य हि ग्राह्य ग्रहीतृव्यतिरिक्तनिमित्तोत्थापितप्रत्ययात्मकत्वं, स्वभावतस्तथाप्रतीतेः, अतत्स्वभावत्वे तदनिमित्तत्वप्रसङ्गात् ॥ • ननु तादृशविज्ञानात्मके पक्षे तादृशहेतोरसत्त्वाद्धेत्वभाववत्प. क्षात्मकम्वरूपासिद्धिदोषाक्रान्त्याऽसिद्धत्वेन “ ह्रदो द्रव्यं धूमात् " इत्यादाविव स्वरूपासिद्धिनिश्चयस्य परामर्शविरोधितयेन्द्रियमनोनिमित्तविज्ञानपक्षकाऽप्रत्यक्षत्वसाध्यकानुमितिन स्यादिति चेत्तत्राह"ना सिद्धो हेतुः” इति । हेतुरसिद्धिदोषयुक्तत्वेन सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधितान्तर्गतोऽसिद्धात्मको दुष्टो नेत्यर्थः। तत्र हेतुमाह-धर्मिधर्मत्वादिति, पक्षवृत्तित्वादिति हि तदर्थः। हेतोः कथं पक्षवृत्तित्व मितिचेत्तत्राह-स्वभावत इति । स्वभावतः-निसर्गादेव तथा तादृशपक्षगतत्वेन प्रतीतेः। यथोदितविज्ञानस्य-यथोदितविज्ञानात्मकपक्षस्य हि-निश्चयेन ग्राह्यग्रहीतृव्यतिरिक्तनिमित्तोत्थापितप्रत्ययात्मकत्वं स्वभावत एवावसेयम। तथा-इन्द्रियमनोनिमित्तं विज्ञानं ग्राह्यग्रहीतृव्यतिरिक्त-निमित्तोत्थापितप्रत्ययात्मकम् इतिप्रतीतेर्दर्शनात् । यथोदितविज्ञानस्य तथा स्वभावो नाङ्गीक्रियते इतिचेत्तत्राह-अतत्स्वभावत्वे इति। यथोदितविज्ञानस्य ग्राह्यग्रहीतृव्यतिरिक्तनिमित्तोत्थापितप्रत्ययात्मकत्वास्वभावत्वे यथोदितविज्ञाने इन्द्रियमनोनिमित्तत्वाभावप्रसङ्गात् । आश्रयासिद्धिस्वरूपासिद्धिव्या