SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ [२६] निश्चयत्वं निवेशनीयम । तथाच लौकिकसन्निकर्षाजन्यदोष विशेषा. जन्य-तद्धविच्छिन्नविशेष्यतानिरूपिततत्सम्बन्धावच्छिन्न-तद्धर्मावच्छिन्नप्रकारताशालिबुद्धि प्रति तद्धर्मावच्छिन्नविशेप्यतानिरूपिततत्सम्बन्धावच्छिन्न-तद्धर्मावच्छिन्नप्रतियोगिताकाभाववत्ता "अनाहार्याप्रामाण्यज्ञानानास्कन्दित" निश्चयः, तादृशाभावव्याप्यवत्तानिश्चयश्च प्रतिबन्धक इति फलितम , प्रतिबध्यताप्रतिबन्धकतावच्छेदकश्च मम्बन्धः समवायात्मकोऽवसेयः । एवञ्च लौकिकसन्निकर्षाजन्यदोषविशेषाजन्येन्द्रियमनोनिमित्तविज्ञानत्वावच्छिन्नविशेष्यतानिरूपित-समवायसम्बन्धावच्छिन्नाप्रत्यक्षत्वत्वावच्छिन्नप्रकारताशालिबुद्धिं प्रति इन्द्रियमनोनिमित्तविज्ञानत्वावच्छिन्नविशेष्यतानिरूपितसमवायसम्बधावच्छिन्ना प्रत्यक्षत्वावच्छिन्नप्रतियोगिताकानाहा-प्रामाण्यज्ञानानास्कन्दितस्य "इन्द्रियमनोनिमित्तं विज्ञानं प्रत्यक्षम्" इत्याकारकस्य प्रत्यक्षात्मक निश्चयस्य प्रतिबन्धकत्वादित्याशङ्कां मनसि निधा याह २-( मूलम् ) न प्रत्यक्षादिविरोधिनी प्रतिज्ञा, अस्य साक्षात्सम्पूर्ण वस्तुपरिच्छेदायोगात्, अनोदृशस्य च प्रत्यक्षत्वानुपपत्तेः ॥ इन्द्रियमनोनिमित्तं विज्ञानमप्रत्यक्षम् इतीयं प्रतिज्ञा प्रत्यक्षादिविरोधिनी न भवितुमर्हति, अस्य-इन्द्रियमनोनिमित्तस्य विज्ञानस्य साक्षात् सम्पूर्णवस्तुपरिच्छेदानात्मकत्वात्. साक्षात् सम्पूर्णवस्तुपरिच्छेदात्मकमेव विज्ञानं प्रत्यक्षमुच्यते, अनीदृशस्य असाक्षादसम्पूर्णवस्तुपरिच्छेदात्मकस्येन्द्रियमनोनिमित्तस्य विज्ञानस्य प्रत्यक्षस्वानुपपत्तेरित्युक्तप्रतिबध्यप्रतिबन्धकभावाप्रसक्तेः । तथाचेयं प्रतिज्ञा
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy