SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ [ २५ ] ननु सर्वजन प्रत्यक्ष गोचरातिक्रान्तत्वेन खरविषाणादाविव सर्वज्ञेऽपि कल्प्यतामसत्त्वमिति चेत्तत्राह - नचेदमित्यादिना - इन्द्रियप्रत्यक्षात्मकं विज्ञानं यतः साक्षान्नोत्पद्यते सम्पूर्ण वस्तुपरिच्छेदात्मकञ्च न भवत्यतस्तत् परमार्थतः प्रत्यक्षम् प्रत्यक्षप्रमाणात्माकं न भवति । एवञ्चेन्द्रियप्रत्यक्षात्मक - प्रत्यक्षप्रमाणगोचरातिक्रान्तत्वेऽपि न भवतामभीष्टसिद्धिरिन्द्रियप्रत्यक्षस्य प्रत्यक्षप्रमाणत्वाभावात् तथाचायं प्रयोगः - " इन्द्रियमनोनिमित्तं विज्ञानमप्रत्यक्षम् ग्राह्यग्रहीतृव्यतिरिक्तनिमित्तोत्थापितप्रत्ययात्मकत्वात् धूमादग्निज्ञानवत्, इति । पर्वतो वह्निमान् धूमादित्येवमनुमित्यात्मकवह्निज्ञानं यथा माह्यग्रहीत्रोर्व्यतिरिक्तेन धूमात्मकेन निमित्तेनोत्थापितप्रत्ययात्मकत्वादप्रत्यक्षं भवति तथैवेन्द्रिय प्रत्यक्षमपि ग्राह्यग्रहीत्रोर्व्यतिरिक्तेन केन - चिदिन्द्रियात्मकेन निमित्तेनोत्थापितत्वादप्रत्यक्षमेवेतिभावः । ननु पतो वह्निमान् इत्यादौ सर्वत्र पक्ष सत्त्वसपक्ष सत्त्वविपक्षव्यावृत्तत्वात्मकरुपत्रयविशिष्टेनैव लिङ्गेन लिङ्गिनो ज्ञानमनुमित्यात्मकं भवति प्रकृते तु निश्चितसाध्याभाववान् कश्चन विपक्ष एव नास्तीति विपक्षव्यावृत्तत्वाप्रसिद्धत्वान्नेदमप्रत्यक्षत्व साध्यकमनुमानमित्याशङ्कायामाह - विपक्ष इति । अप्रत्यक्षत्वात्मक-साध्याभाववत्त्वेन निश्चितत्वात्केवलज्ञानं विपक्षस्तद्व्यावृत्तत्वस्य हेतौ सत्त्वान्न कश्चिद्दोषः । ननु - " इन्द्रियमनोनिमित्तं विज्ञानमप्रत्यक्षम् " इति प्रतिज्ञैव तावत् प्रत्यक्षादिविरुद्धा, तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयस्य तद्भावव्याप्यवत्तानिश्चयस्य च प्रतिबन्धकत्वम् प्रतिबध्यतावच्छेदककोटौ लौकिकसन्निकर्षाजन्यत्वं दोषविशेषाजन्यत्वं च निवेशनीयम्, प्रतिबध्यतावच्छेदकन्तु " संशयनिश्चयसाधारण " तद्वत्ताबुद्धित्वम् । एवं प्रतिबन्धकतावच्छेदककोटौ अनाहार्याप्रामाण्यज्ञानानास्कन्दित
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy