________________
_
[२४]
प्रसङ्गादित्यर्थः । अथ न वयमिन्द्रियप्रत्यक्षगोचरातिक्रान्तत्वेन सर्वज्ञासत्त्वं मन्यामहे येन पूर्वोक्ताऽऽपत्तिभाजो भवेम किन्तु सर्वजनप्रत्यक्षगोचरातिक्रान्तत्वेनैव । तथा च जलमध्यवर्तिनां रत्नादीनामन्ततो मीनादीन्द्रियप्रत्यक्षगोचरत्वेन सर्वजनप्रत्यक्षगोचरातिक्रान्तत्वाभावेनैवाऽऽपत्तिः परिहृता स्यात् , सर्वज्ञः पुनर्न कस्यापीन्द्रियगोचर इति सर्वजनप्रत्यक्षगोचरातिक्रान्तत्वादसन्नेवावतिष्ठतामित्याशङ्कां परिहरति नचेत्यादिना । तत्र सर्वज्ञे वः-युष्माकम् अभिमते सर्वजनप्रत्यक्षगोचगतिक्रान्तत्वे नच प्रमाणमस्तीस्यर्थः । कथमितिचेत्तत्राह-तच्चेत्सामिति, सर्वजनचेतसां परोक्षत्वात्-प्रत्यक्षत्वाभावादित्यर्थः । यदि सर्वजनचेतांसि प्रत्यक्षाणि भवेयुस्तदैव सर्वजनप्रत्यक्षगोचरातिक्रान्त त्वं प्रमातुं शक्यम् , तान्येव न प्रत्यक्षाणीति सर्वज्ञे सर्वजनप्रत्यक्षगोचरातिक्रान्तत्वस्य स्वीकर्तुमशक्यतया तदीयाऽसत्त्वासिद्धिरिति भावः । अथ तच्चेतसां परोक्षस्वं न स्वीक्रियते इति चेत्तर्हि तच्चेतसां प्रत्यक्षत्वाभ्युपगमे यस्य तानि प्रत्यक्षाणि स्वीक्रियेरन् अतीन्द्रियार्थदर्शिनस्तस्य सत्ता सिद्धयेत् तादृशसत्ताशाली च सर्वज्ञ एवेति स सन्नेवाङ्गीकरणीयः । सर्वजनप्रत्यक्षगोचरातिक्रान्तत्वे प्रामाण्याभावद्योतकं कारणान्तरमाह-तत्संशयेति। तामेव संशयानिवृत्तिमुपपादयति नहीत्यादिना-यदि सर्वजनप्रत्यक्षगोचरातिक्रान्तत्वेन कस्यचिदसत्त्व न निर्णेतुं शक्यम् तादृशप्रत्यक्षगोचरातिक्रान्तत्वतौल्येऽपि खरविषाणादिवद्धर्मादिषु युष्माकमप्यसत्त्वस्यानिर्णयात्, अन्यथा खरविषाणादाविव धर्मादावपि संशयनिवृत्त्योचितप्राप्तया भवितव्यम् , संशयनिवृत्तिश्च खरविषाणादौ भवतिधर्मादौ न भवतीति तादृशेन सर्वजनप्रत्यक्षगोचरातिक्रान्तत्वेन हेतुना सर्वज्ञासत्त्वकल्पनं भवतामविचार्यकारित्वमेवेतिभावः ।