SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ [२१] न वक्तृत्वदेहस्य, नचासौ कर्मणा विना । न तद्रागादिशून्यस्य, वक्तृत्वं तन्निबन्धनम् ॥ २० ॥ ( अन्वयः ) अदेहस्य, वक्तृत्वम्, न च, असौ, कर्मणा, विना, न, तत्, रागादिशून्यस्य, न, वक्तृत्वम्, तन्निबन्धनम् ॥ २० ॥ वृत्तिः - अदेहस्य - अशरीरस्य । वक्तृत्वम् उत्तमजात्यभिधानादिसंवलितत्व प्रयोज्य गीयमानप्रवचनकर्तृत्वम् । न- नहि । भवितुमर्हतीतिशेषः । च- पुनः । असौ - बुद्धिविषयतामापन्नो देहः । कर्मणा - शुभाशुभाऽन्यतरकर्मणा । विना-अन्तरेण । न- नहि । भवितुमर्हतीतिशेषः । तत् - बुद्धिविषयीभूतं कर्म | रागादिशून्यस्यरागद्वेषादिविरहितस्य । न - नहि । समुत्पद्यते इतिशेषः । वक्तृत्वम्तादृशप्रवचनकारित्वम् । तन्निबन्धनम् - रागादिशून्यत्वमूलकम् ॥२०॥ विवक्षया च वक्तृत्व, साचेच्छा भावतो हि यत् । रागस्ततश्च वक्तृत्वान्न सर्वज्ञ इति स्थितम् ॥ २१ ॥ ( अन्वयः ) च, वक्तृत्वम्, विवक्षया, सा, च, इच्छा, यत्, भावतः, हि, (सः) रागः, च, ततः, सर्वज्ञः, न, वक्तृत्वात्, इति स्थितम् ॥ २१ ॥ वृत्तिः - च- पुनः । वक्तृत्वम् उत्तमजात्यभिधानादिसंवलितत्वप्रयोज्यगीयमानप्रवचनकर्तृत्वम् । विवक्षया - वक्तुमिच्छा विवक्षा तथा तथा । भवतीति शेषः । सा - बुद्धिविषयीभूता । च- पुनः । इच्छा-वाञ्छा । यत् - यस्मात् । भावतः - वस्तुतः, भावपदार्थतः इतियावत् । ( स: - भावः ) रागः - अनुरागो मात्सर्य वा । 'रागोऽनुरागे कुशादौ मात्सर्ये लोहितादिषु' इतिशाश्वतः । च
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy