SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ [२०] नेतव्य इतियावत् । चेत्-यदि । निर्दिष्टः जातिनामभ्यां निर्देश प्रापितः । तींती शेषः । सः-बुद्धिविषयः सर्वज्ञः वक्तृत्वात्जातिनामयुक्तत्वप्रयोज्यपरकर्तृकगीयमानप्रवचनकर्तृत्वाद्धेतोरित्यर्थः । असर्वज्ञः-सर्वज्ञभिन्नः, सर्वज्ञत्वाभावान् वा । प्रसज्यते-प्राप्तो भवतीत्यर्थः ॥ १८ ॥ सर्वो विशेषः सर्वज्ञो, वक्तृत्वेन ह्यपोद्यते । अपोदितविशेष च, सामान्य कावतिष्ठताम् ॥ १९॥ ( अन्वयः ) हि, सर्वः, विशेषः, सर्वज्ञः, वक्तृत्वेन, अपोद्यते, च, अपोदितविशेषम् , सामान्यम् , क, अवतिष्ठताम् ॥ १९॥ ___ वृत्तिः-हि-निश्चयेन । सर्वः-निखिलः । विशेष:-तत्तज्जात्यभिधानादिसंवलितः । सर्वज्ञः-सकलपदार्थज्ञाता केवली । वक्तत्वेन-नामजात्यादिसंवलितत्वप्रयोज्यगीयमानप्रवचनकारित्वहेतुना । अपोद्यते-निराक्रियते दूरीक्रियते इतियावत् । च-पुनः । अपोदितविशेषम्-अपोदिता दूरीकृता विशेषास्तत्तन्नामजातिभाज: सर्वज्ञा यस्य तत्तथा । सामान्यम्-सर्वज्ञत्वसामान्यम् । क-कुत्र । अवतिष्ठताम्-स्थितिशालिभवतु, न कुत्रापीतिभावः । अयमाशयः विशषाभावकूटेन सामान्याभावः सिद्धयतीति नियमो वर्तते विदुषाम् , अत एव वायौ नीलं नास्ति पीत नास्तीत्यादिप्रतीत्या प्रमितेन नीलपीतादिविशेषाभावकूटेन वायौ रूपं नास्तीति व्यवहारसिद्धरूपसामान्याभावः सर्वसम्मतः सिद्धो भवति, तथैव वक्तृत्वेन हेतुना स सर्वज्ञो नेत्येव सर्वज्ञसामान्याभावोऽनायत्यापि स्वीकरणीय इति ॥ १९ ॥
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy