________________
[२२]
पादपूरणार्थकमव्ययम् । ततः- वक्तृत्वस्य रागमूलकत्व निश्चयाद्धेतोः । सर्वज्ञः-सकलपदार्थज्ञाता केवली । न-नही । अस्तीतिशेषः । वक्तृत्वात्-वक्तृस्वज्ञानज्ञाप्यत्वात् । इति मदुक्तप्रकारमनुमानम् । स्थितम्-स्थिरं जातमितिभावः । ॥ २१ ॥
एवञ्च प्रमाणपञ्चकावृत्तेः रागादिमूलवक्तृत्वाच्च सर्वज्ञो न कश्चित्पदार्थः ।
इति परमदार्शनिकाचार्य पुरन्दर श्रीहरिभद्रसूरिविरचितायां सर्वज्ञसिद्धौ शास्त्रविशारद-कविरत्न-पीयूषपाणि-पूज्यपादाचार्यमहाराज श्री विजया मृतसूरीश्वरकृतायां सर्वहिताऽऽख्यायां व्याख्यायां सर्वज्ञताप्रतिषेधपूर्वपक्षाभिधं प्रथमं प्रकरणम् ॥
१-( मूलम् )अत्रोच्यते यत्तावदुक्तं 'प्रत्यक्षादिप्रमाणगोचरातिक्रान्तत्वादसाध्वीसर्वज्ञकल्पने'ति, तदयुक्तम् , कुतः? यतो न सर्वपदार्थग्राहीन्द्रियप्रत्यक्षमिति तद्गोचरातिक्रन्तत्वेऽपि भावानां नावश्यमसत्तासिद्धिरतिप्रसङ्गात् , तदगोचराणामपि सतामेवानुमानादिविषयतयेष्टवात् , अन्यथाऽनुमानादेरप्यसत्तामात्रत्वे सति अतिप्रसङ्गात् , न च सर्वजनप्रत्यक्षगोचरातिक्रान्तत्वे तत्र वः प्रमाणमस्ति, तच्चेतसां परोक्षत्वात् , तदभ्युपगमे चातीन्द्रियार्थदर्शिनः सत्तासिद्धिः, तत्संशयानिवृत्तेश्व, नहि सर्वजनप्रत्यक्षगोचरातिक्रान्ता अपि वः खरविषाणादिवन्न सन्ति धर्मादय इति तत् संशयानिवृत्तिः। १ प्रमाणैर्गोचरा.