SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ [१९] इत्यमरः । एवञ्च सर्वज्ञवादिनः । यम् यम्-बुद्धिविषयीभूतम् । सर्वज्ञम्-सकलपदार्थज्ञातारं केवलिनम् । आहुः-कथयन्ति । एतेन-प्रदर्शिते नानुमानप्रकारेण । तम् तम्-बुद्धिविषयीभूतम् सर्वज्ञ मितियावत् । वारयेत्-प्रतिरोधयेत् । इति-स्वरूपपरामर्शार्थमव्ययम् ॥ अयमाशयः-पर्वतो वह्निमान् धूमात् इत्यत्र पर्वतो वह्नयभाववान् पाषाणमयत्वात् इत्यादिरीत्या विरुद्ध साध्यसाधकात्मके सत्प्रतिक्षिते हेतौ समुपस्थापितेऽन्यतरस्मिन्नप्रामाण्यग्रहविषयतापादनात् प्राक् यथा न काप्यनुमितिर्भवति तथैव प्रकृतेऽपि सर्वज्ञवादिभि:-" असौ सर्वज्ञः केवलित्वात्" इत्येवमनुमानाकारे समुपस्थापितेऽस्माभि:-" असौ न मवज्ञो वक्तृत्वात्" इत्येवं सत्प्रतिपक्षिते हेतौ सतुपस्थापितेऽन्यतरहेतुविषयकमप्रामाण्यज्ञानं यावदुभेऽप्यनुमिती प्रतिबद्धे भवतः मदुपस्थापिते वक्तृत्वात्मके हेतावप्रामाण्यज्ञानविषयतायाः सिद्धान्तिभिरापादिताया अभावात् ।। इति ॥ १७ ॥ अवश्य जातिनामभ्यां, स निर्देश्यः परैरपि । निर्दिष्टश्चेत् स वक्तृत्वा-दसर्वज्ञः प्रसज्य ते ॥ १८ ।। (अन्वयः) सः, परैः, अपि, अवश्यम् , जातिनामभ्याम् , निर्देश्यः । चेत् , निर्दिष्टः, सः, वक्तृत्वात् , असर्वज्ञः, प्रसज्यते ॥ वृत्तिः-सः, बुद्धिविषयीभूतः सर्वज्ञः । परैः-अपरैः, सर्वज्ञवादिभिरितियावत् । अपि-खलु । अवश्यम्-नूनम् । जातिनामभ्याम्उत्तमजातिविशिष्टाभिधानाभ्याम् । निर्देश्यः-निर्देष्टव्यः, निर्देशं
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy