SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ [१८] चिदभिधानादिसंवलितत्वात् । परैः-अन्यैः । वक्ता-जनताहित. कामनया प्रवचनकर्ता। गीयते-कथ्यते । तत:-वक्तृत्वात् । सर्वज्ञःसकलपदार्थज्ञाता। कथम्-केनप्रकारेण । नु-सम्भावनायाम् तथाच सम्भाव्यते इत्यर्थः, यदि वक्तृत्वं वर्ततं तर्हि सर्वज्ञत्वं कथमपि नो सम्भाव्यते इतिभावः। यथा-येनप्रकारेण । न्यायवादिनाकर्कशहृदयतया केवलतर्कावलम्बिना । उक्तम् - कथितम ।। किमुक्तमित्याकाङ्खायामाह-असावितीति असाविति न सर्वज्ञो, वक्तृत्वाद्देवदत्तवत् । यं यं सर्वज्ञमित्याहु-स्तं तमेतेन वारयेत् ॥ १७ ॥ - (अन्वयः ) अमौ, सर्वज्ञः, न, वक्तृत्वात्, देवदत्तवत् , इति, यम्', यम् , सर्वज्ञम् , आहुः, एतेन, तम , तम् , वारयेत् इति ॥ - वृत्तिः-असौ-विप्रकृष्टतया बुद्धिविषयः । “ इदमस्तु सन्निकृष्टे, समीपतरवर्ति चैतदो रूपम । अदसम्तु विप्रकृष्टे, तदिति परोक्षे विजानीयात् ।।" इति। सर्वज्ञो न-सर्वज्ञत्वाभाववानित्यर्थः । वक्तृत्वात्-- नामजात्यादिसंवलितत्वप्रयोज्यपरकर्तृकगीयमानप्रवचनकारित्वात्. उदाहरणमाह-देवदत्तवत्-देवदत्ततुल्यः । " यो यो वक्तृत्ववान् स सर्वज्ञत्वाभाववान् यथा देवदत्तः " इत्युदाहरणप्रदर्शनमेतत् । एवम्-सर्वज्ञत्वाभावव्याप्यवक्तृत्ववाँश्चायम इत्युपनयः, तस्मान्नासौ सर्वज्ञ इति सिद्धयति वक्तृत्वहेतुकसर्वज्ञत्वाभावानुमित्या सर्वज्ञाऽस्तित्वम् । इति-अनेन प्रकारेण, इतिशब्दस्यात्रप्रकारार्थकत्वात् । “ इतिहेतुप्रकरणप्रकारादिसमाप्तिषु"
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy