________________
[१७] मिति यावत् । प्रक्षय:-प्रकर्षेण विनाशः, निरन्वयनाश इति यावत् । न-नहि । उपपद्यते-उपपत्तिमान् भवति, सङ्गच्छते इति यावत् । . स्वभावस्य केनचित् पराकर्तुमशक्यत्वादितिभावः । अथ नात्मस्वभावास्ते, सर्वज्ञः सर्व एव हि । अरागादिस्वभावत्वा-न्न वा कश्चित् कदाचन ॥ १५॥
( अन्वयः) अथ, ते, आत्मस्वभावाः, न, अरागादिस्वभावत्वात्. हि, सर्वः, एव, सर्वज्ञः, कश्चित्, कदाचन, न वा ।।
वृत्तिः-अथ-यदिपुनः । ते-रागादयः । आत्मस्वभावाःचेतनस्वभावभूताः । न-नहि । आत्मस्वभावास्ते रागादयो न स्वीक्रियन्ते चेदित्यर्थः । अरागादिस्वभावत्वात् रागादिस्वमावरहितत्वाद्धेतोः । हि-निश्चयेन। सर्व:-निखिलः । एव-अन्यव्यवच्छेदार्थमव्ययम् । सर्वज्ञः-सकलपदार्थज्ञाता । सम्पद्यतेतिशेषः । एवकारव्यावर्त्यमाह नवेत्यादिचतुर्थपादेन । कश्चित्-अनियतः कोऽपीत्यर्थः । कदाचित्-अकस्मात् , अनियतकालावच्छेदेनेतियावत् । नवानैव । रागादिस्वभावरहितत्वाद्धेतोः सर्वः सर्वदैव सर्वज्ञ स्यान्नतु कोऽपि कदाचिदेवेतिभावः ॥ १५ ॥ किञ्च जात्यादियुक्तवाद , वक्ताऽसौ गीयते परैः । ततः कथं नु सर्वज्ञो, यथोक्तं न्यायवादिना ॥१६॥
(अन्वयः) किञ्च, असौ, जात्यादियुक्तत्वात् , परैः, वक्ता, गीयते, ततः, सर्वज्ञः, कथम् , नु, यथा, न्यायवादिना, उक्तम् ।
वृत्तिः-किञ्च-अन्यच्च । असौ-साधयिष्यमाणतया बुद्धिविषयीभूतः सर्वज्ञः । जात्यादियुक्तत्वात्-उत्तमजाति विशिष्टयत्कि