________________
[१६] सर्वः-निखिलः। अर्थः-वस्तु । उपपद्यते-उपपन्न: सङ्गत इति यावद् भवति, लोके किमपि न तादृशमवशिष्यते वस्तु यत् सर्वज्ञेन विनाऽनुपपन्नं स्यात् एवञ्चार्थापत्तिरपि प्रमाणं न सर्वज्ञे प्रवतते इति भावः । ( ततश्च ) प्रमाणपञ्चकावृत्त:-प्रत्यक्षानुमानोपमानशब्दार्थापत्त्याख्यप्रमाणपश्चकाप्रवर्तनात् । तत्र-सर्वज्ञे । अभावस्य-अभावाख्यपदार्थस्य । मानता-प्रमाणता । स्वीकरणीयेति भावः, अनुपलब्धिनामकेन षष्ठेन प्रमाणेन सर्वज्ञाभावस्य सिद्धिर्भवति. अयमाशयः-योग्यं यद्वस्तुनोपलभ्यते तदनुपलब्ध्या तदभावः सिद्धयति तदनुपलब्धिस्तदभावे प्रमाणं भवति, भवति च सर्वत्र सर्वज्ञानुपलब्धिरतस्तदभावस्तयाऽनुपलब्ध्या सिद्धयतीति सर्वज्ञाभावः सिद्धोऽवसेयः।
प्रकारान्तरेणापि सर्वज्ञाभावं साधयन्ति रागादिप्रक्षयाचास्येत्यादिना
रागादिप्रक्षयाच्चास्य, सर्वज्ञत्वमिहेष्यते । तेषां चात्मस्वभावत्वात् , प्रक्षयो नोपपद्यते ॥ १४ ॥
(अन्वयः) च, अस्य, रागादिप्रक्षयात् , इह, सर्वज्ञत्वम् , इष्यते, च, आत्मस्वभावत्वात् , तेषाम् , प्रक्षयः, न, उपपद्यते ॥
वृत्ति :-च-पुनः । अस्य-प्रक्रान्तस्य सर्वज्ञस्य । रागादिप्रक्षयात् रागादेराभ्यन्तरमहारिपोः प्रकर्षेण विनाशाद्धेतोः । इह-प्रक्रान्ते प्रसाधयिष्यमाणे सर्वज्ञे। सर्वज्ञत्वम-सकलपदार्थज्ञातृत्वम् । इष्यते इच्छाविषयीक्रियते। च-त्वर्थकमव्ययम् , किन्त्वित्यर्थः । आत्मस्वभावत्वात-आत्मनश्चेतनस्य स्वभावाः स्वरूपाणि. आत्मस्वभावास्तेषां भावस्तत्त्वम् , तस्मात्तथा । तेषाम्-प्रक्रान्तानाम्. रागादीना