SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ [१५] इति गृहासत्त्वरूपोऽर्थ उपपाद्य इत्युच्यते, एवं बहिःसत्त्वरूपस्य कल्पनीयार्थस्याभावे सति गृहासत्त्वरूपमुपपाद्यं नोपपद्यते इति बहिःसत्त्वरूपोऽर्थ उपपादक इत्युच्यते, तत्रोपपाद्यज्ञानं करणतयाऽर्थापत्तिप्रमाणम् । उपपादकज्ञानं च फलतयाऽर्थापत्तिप्रमा । एतदुक्तं भवति-अर्थस्य-बहिःसद्भावस्य- आपत्तिः कल्पना यस्मादिति समासेन ‘अर्थापत्ति' शब्द उपपाद्यज्ञानरूपकरणपरत्वेन प्रमाणवाची, अर्थस्याऽऽपत्तिरितिसमासेन चोपपादकज्ञानरूपार्थापत्तिप्रमितिपर इति । साचार्थापत्तिर्द्विविधा-दृष्टार्थापत्तिः श्रुतार्थापत्तिश्चेति । तत्रदृष्टार्थापत्तेर्लक्षणं यथा श्लोकवार्तिके प्रमाणषट्कविज्ञातो, यत्रार्थो नान्यथा भवेत् । अदृष्टं कल्पयेदन्यं, सार्थापत्तिरुदाहृता" ॥ इति श्रुतापत्तिरपि लक्षिता तत्रैव यथा" पीनो दिवा न भुङक्ते, चेत्येवमादिवचःश्रुतौ। रात्रिभोजनविज्ञानं, श्रुतार्थापत्तिरुच्यते ॥ इति प्रत्यक्षशब्दवदर्थापत्तिशब्दोऽपि प्रमाप्रमाणयोरुभयोरपि प्रत्यायकः । उपपादककल्पनाहेतुभूतोपपाद्यज्ञानमापत्तिप्रमाणम् , उपपादकज्ञानमर्थापत्तिप्रमा । यथा-रात्रिमोजनं विना दिवाऽभुञ्जाने पुरुषे स्थूलता नोपपद्यते इति रात्रिभोजनस्य स्थूलतोपपाद्या । यस्याभावेन यस्याभावः सम्पद्यते तत्तस्योपपादकम् , यथा रात्रिभोजनाभावेन दिवाऽभुञ्जाने स्थूलताया अभावः सम्पद्यते इति रात्रिभोजनं स्थूल. ताया उपपादकं भवति, भवतिचैवमर्थापत्तिः प्रमाणम् । तथाच तेनार्थापत्त्याख्यप्रमाणेन । न-नहि । गृह्यते स सर्वज्ञ इति शेषः । तदेवोपपादयति सर्वोऽर्थस्तमित्यादिना तम्-प्रसाधयिष्यमाणतया बुद्धिविषयीभूतम् । विना-अन्तरेण । अपि-खलु ।
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy