SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ [१२] पूर्वपक्षमुपक्रमतेप्रत्यक्षादिप्रमाणैर्गों-चगतिक्रान्तभावतः । असाध्वी किल सर्वज्ञ-कल्पनाति पसङ्गतः ॥ १० ॥ (अन्वयः) प्रत्यक्षादिप्रमाणैः, गोचरातिकान्तभावतः, सर्वज्ञकल्पना, किल, असाध्वी, अतिप्रसङ्गतः ॥ १० ॥ वृत्तिः-प्रत्यक्षादिप्रमाणैः-प्रत्यक्षादिप्रमाणपश्चकेन । गोचरातिक्रान्तभावतः-विषयतयाऽतिक्रमणात्, प्रत्यक्षादिप्रमाणपञ्चकविषयतातिक्रान्तत्वाद्धेतोरित्यर्थः । अर्थान्वयानुकूलतया "प्रत्यक्षादिप्रमाणगोचरातिक्रान्तभावतः” इत्ययमपिपाठः साधीयानपि केवलं सप्तमाक्षरलघुत्वेनच्छन्दोभङ्गमिया समुपेक्षितोऽवसेयः। सर्वज्ञकल्पनात्रिकालावच्छेदेन सकलपदार्थविषयकाऽबाधितज्ञानावन्तः सन्तिसर्वज्ञाः इत्येवंविधकल्पना । किल-निश्चयेन । असाध्वी-असमीचीना। कुत इत्याकालायांमाह-अतिप्रसङ्गतः-अतिव्याप्तेरित्यर्थः । प्रत्यक्षादिप्रमाणविषयत्वातिक्रान्तस्यापि वस्तुनः स्वीकारे गगनकुसुमादेरपि स्वीकरणीयत्वापत्तिरितिभावः ॥ १०॥ .. प्रमाणपञ्चकगोचरातिक्रान्तत्वमेव दर्शयति-प्रत्यक्षेणेत्यादिना सार्द्धश्लोकद्वयेनप्रत्यक्षेण प्रमाणेन, सर्वज्ञो नैव गृह्यते । लिङ्गमप्यविनाभावि, तेन किश्चिन्न दृश्यते ॥११ ।।
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy