________________
[११] षष्ठयर्थे सप्तमी बोद्धव्या, " : सि धुद" " इति पाणिनिसूत्रे षष्ठयर्थे सप्तमीदर्शनात्. अन्यथा “ उत्परस्य सस्य धुडित्यर्थः कथङ्कारं सङ्गतिमान् भवेत् । तथा च-धमेपिदेशस्य । विधानत:-अनुष्ठानतः । आख्यातॄणाम-प्रवक्तृणाम् । फलम्-लाभः । उदाहृतम्-कथितः । तथा चोक्तमभियुक्तैः
" न भवति धर्म:श्रोतुः, सर्वस्यैकान्ततो हितश्रवणात् । बुवतोऽनुग्रहबुद्धया, वक्तुस्त्वेकान्ततो भवति" इति. ॥ ८ ॥
अलमत्र प्रसङ्गेन, प्रकृत प्रस्तुमोऽधुना । पूर्वपक्षस्तु सन्याय-स्तत्रातः किश्चिदुच्यते ॥९॥
(अन्वयः) अत्र, प्रसङ्गेन, अलम् , अधुना, प्रकृतम्, प्रस्तुमः । तु, सन्यायः, पूर्वपक्षः, अतः, तत्र, किश्चित्, उच्यते ॥
वृति :-अत्र-एतद्विषये। प्रसङ्गेन-अप्राकरणिकविषयव्यासक्त्या। अलम्-व्यर्थम् , तेन किमपि प्रयोजनं नास्तीत्यर्थः । अधुना -इदानीम् । प्रकृतम्-प्रकरणविषयतामम्पन्नम, वर्णनीयमिति यावत् । प्रस्तुम:-प्रस्तावनाविषयीकुर्मः, वर्ण याम इति यावत् । एवञ्च सिद्धान्तविषय उच्यताम् पूर्वपक्षनिरूपणं पुनरकिश्चित्कर मितिचेत्तदाह-पूर्वपक्षेति-तु-पुनः । सन्न्यायः-सर्वज्ञसाधकसमीचीनतर्फः । पूर्वपक्षःपूर्वपक्षोऽस्ति साधकत्वेनास्येति "अभ्रादिभ्यः” इत्यनेनामादित्वादप्रत्यये तथा पूर्वपक्षं विना सन्न्यायस्यानुपपद्यमानत् सन्न्यायः
र्वपक्षप्रयोज्य इति फलितम् । अतः-अस्माद्धेतोः । तत्र-पूर्वपक्षविषये । किश्चित्-किमपि । उच्यते कथ्यते । अवश्यवक्तव्यतयेतिशेषः ॥९॥