SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ __[१३] (अन्वयः) सर्वज्ञः, प्रत्यक्षेण, प्रमाणेन, न, एव, गृह्यते, तेन, अविनाभावि, किश्चित्, अपि, लिङ्गम् , न, दृश्यते ॥ ११ ॥ वृत्ति :-सर्वज्ञः-सकलपदार्थज्ञानवान् कश्चिदपीत्यर्थः । प्रत्यक्षण-तन्नामकेन । प्रमाणेन-प्रमितिकरणेन। न-नहि। एव-अवधारणार्थकम् । गृह्यते-ज्ञानविषयीक्रियते । एवकारेण सर्वज्ञे ज्ञानविषयता व्यवच्छिद्यते इतिभावः, एवश्च प्रत्यक्षप्रमाणेन सर्वज्ञो नैव ज्ञातुं शक्य , तस्येन्द्रियात्मकप्रत्यक्षप्रमाणाप्राह्यत्वादिति फलितम् । तेन-सर्वज्ञेन । अविनाभावि-व्याप्तम्. " अविनाभावो व्याप्तिः " इति सिद्धान्तादितिभावः । लिङ्गम्-गमकम् । अपि-खलु । किश्चित्किमपि । न-नहि । दृश्यते-अवलोक्यते । पर्वते वह्नयनुमितौ यथा वह्नयविनाभावि धूमात्मकलिङ्गेनानुमात्रा दृष्टेन वह्नयनुमितिः सम्पाद्यते, तथा सर्वज्ञाविनाभावि न किञ्चिदपि लिङ्गं दृश्यते केनापि येन सर्वज्ञानुमितिः सम्पादनीया स्यादितिभावः । एवञ्चनानुमानेनापि प्रमाणेन सर्वज्ञ: साधयितुं शक्य इति स्थितम् ॥ ११ ॥ नचाऽऽगमेन यदसौ, विध्यादिप्रतिपादकः । अप्रत्यक्षत्वतो नैवो-पमानेनापि गम्यते ॥ १२ ॥ ( अन्वयः ) च, आगमेन, न, यत्, असौ, विध्यादि प्रतिपादकः, उपमानेन, अपि, नैव, गम्यते, अप्रत्यक्षत्वतः ।। वत्तिः-च-पुनः । आगमेन-कल्पसूत्राद्यागमेन शब्दात्मकेन प्रमाणेन । न-नहि । सर्वज्ञो गृह्यते इति शेषः । यत्-यस्माद्धेतोः । असौ-बुद्धिविषयीभूत आगमः । विध्यादिप्रतिपादक:क्रियाकाण्डादिविधिमार्गबोधकः । अतो न सर्बजे शब्दोऽपि
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy