________________
[१०] अपिशब्दसूचितायां तादृशप्रबोधानुपपत्तौ प्रयासवैयर्थ्य निराकरोति
तदभावेऽपि तदोषात्, सफलोऽयौं परिश्रमः । कृपाभावत एवेह, तथोपायप्रवृत्तितः ॥ ७ ॥
(अन्वयः) तदोषात् , तदभावे, अपि, अयम् , परिश्रमः, सफलः, इह, कृपाभावतः, एव, तथोपायप्रवृत्तितः ॥ ७॥ -
वृत्तिः-तदोषात्-तत्तजनसत्कदोषतः । तदभावे-सर्वज्ञविषयकप्रकृष्टज्ञानाभावे । अपि-सम्भावनायाम् । अयम्-सन्निकृष्टतया विधीयमानः । परिश्रमः-प्रयास: । मदीय इति शेषः । सफल:सार्थकः । वर्तते इति शेषः । इह-सर्वज्ञविषयकबोधसम्पादने । कृपाभावतः-हृदयावच्छिन्नदयाभावसञ्चारतः । एव-अवधारणार्थकमव्ययम् , तथा च . हृदयावच्छिन्नदयाभावसञ्चारादेवेत्यर्थः । तथोपायप्रवृत्तितः-तादृशज्ञानप्राप्त्युपायविषयकप्रयत्नादित्यर्थः ॥७॥
श्रोतृणामप्रबोधेऽपि यन्मुनीन्द्ररुदाहृतम् । आख्यातॄणां फलं धर्म-देशनायां विधानतः ॥८॥
(अन्वयः) यत् श्रोतृणाम् , अप्रबोधे, अपि, मुनीन्द्रैः, धर्मदेशनायाम् , विधानतः, आख्यातॄणाम् , फलम् , उदाहृतम् ॥
(वृत्तिः) यत्-यस्माद्धेतोः । श्रोतृणाम्-सर्वज्ञबोधहेतूपदेशात्मकवचनश्रवणकर्तृणाम् । अप्रबोधे-सर्वज्ञविषयकप्रकृष्टज्ञानाभावे । अपि-सम्भावनार्थकमव्ययम् । मुनीन्द्रैः-श्रमणश्रेष्ठैः। धर्मदेशनायाम्