________________
[९] (अन्यय:)-यत:, महामोहाभिभूतानाम् , महान, अनर्थः, अतः, तत्त्वविदाम्, कृपा, तेषु, अवश्यम् , प्रवर्तते, इति । ___वृत्ति :-यत:-यस्माद्धेतोः । महामोहाभिभूतानाम्-पूर्वप्रदर्शितस्वरूपमहामोहपीडितानाम, जनानामिति शेषः । ___महान्–विपुल: । अनर्थः-प्रेप्सितार्थानधिगमानभिप्रेताधिगमरूपहानिः । सम्पद्यते इति शेषः । अतः-अस्माद्धेतोः । तेषु महामोहाभिभूतजनेषु । तत्त्वविदाम्-तत्त्वज्ञानिनाम् । कृपादया, निरुपाधित दीयदुःखापहरणेच्छेति यावत् । अवश्यम्नूनम् । प्रवर्तते-प्रवृत्तिशालिनीभवति । इति-स्वरूपपरामर्शार्थकमव्ययम् । तथाच-एतत्स्वरूपमुक्तमित्यर्थः ॥ ५ ॥
श्रुत्वैतं चेह सन्याय, तथा क्लिष्टस्य कर्मणः । क्षयोपशमभावेन, प्रबोधोऽप्युपपद्यते ॥६॥
(अन्वयः) च, इह, एतम् , सन्न्यायम् , श्रुत्वा, तथा, क्लिष्टस्य, कर्मणः, क्षयोपशमभावेन । प्रबोध, अपि, उपपद्यते ॥६॥
वृत्तिः-च-पुनः । इह-अस्मिल्लोके । एतम्-समीपतरवर्तितयोच्यमानम् । सन्न्यायम्-सर्वज्ञसाधकसत्तर्कम् ।
श्रुत्वा-समाकर्ण्य । तथा-तेनप्रकारेण । कृतस्येतिशेषः । क्लिष्टस्य-क्लेशकारकस्य । फर्मणः-ज्ञानावरणीयादिकर्माष्टकस्य । क्षयोपशमभावेन-क्षयभावेनोपशमभावेन च । प्रबोधः-सर्वज्ञविषयकं प्रकृष्टं ज्ञानम् । अपि-सम्भावनायाम् । उपपद्यते-उपपन्नं भवति । कदाचित् सर्वज्ञविषयकं प्रकृष्टं ज्ञानमनुपपन्नमपीत्यपिशब्देन सूचितं भवतीत्यवसेयम् ॥ ६॥