________________
[८] कमज्ञानम् । मोहः-मोहपदाभिधेया। हि-निश्चयेन । तु-पुनः । सताम्-विद्यमानानाम् सर्वज्ञानामिति भावः । नास्त्येवाभिनिवेश:नास्त्येवेति दुराग्रहः । महामोहः-महामोहपदवाच्यः । मत:-अभिमतः । यद्वा उत्तरार्द्धस्य-तु, नास्त्येवाभिनिवेशः, सताम् , महामोहः, मतः" इत्येवमन्वयोऽभ्युपगन्तव्यः । व्याख्या तु नापेक्षामर्हतीति कृतोपक्षोत्तरार्द्धव्याख्याऽवसेयेति ।। ३ ॥
अस्माच दूरे कल्याण, सुलभा दुःखसम्पदः । नाज्ञानतो रिपुः कश्चि-दत एवोदित बुधैः ॥ ४ ॥ - अन्वयः-च, अस्मात् , कल्याणम् , दूरे, दुःखसम्पदः, सुलभाः, अज्ञानात्, कश्चित्, रिपुः, न, वर्तते, अत एव, बुधैः, उदितम् ।
___वृत्ति :-च-पुनः। अस्मात् - सर्वज्ञाप्रतिपत्तिजनितमोहात्, सर्वज्ञत्वाभावाभिनिवेशजनितमहामोहाच्च । कल्याणम्-मङ्गलम् । दूरे-विप्रकृष्टे । तिष्ठतीतिशेषः। दुःखसम्पदः-दुःखसाम्राज्यानि । सुलभाः-सुखेन लब्धं योग्याः, अनाकाङ्किता अपि प्राप्तुं योग्या इति भावः । अज्ञानतः-शनाभावात्, महामोहत इति यावत् । महानिति शेष. । कश्चित्-कोऽपि । रिपुः-शत्रुः। न-नहि । वर्तते इति शेषः । अत एव-एतस्मादेव हेतोः। बुधैः-मनीषिभिः । उदितम्-निगदितम् ।। ४ ।।
किन्तदित्याकाङ्खायामाह-महामोहेति महामोहाभिभूतानामित्यनों महान् यतः । . अतस्तच्चविदां तेषु, कृपाऽऽवश्यं प्रवर्तते ॥५॥