________________
[७] . (अन्वयः)-केचित् , महामोहात् , अयम् , नास्ति, एव, एवम् , प्रचक्षते, कृपया तत्प्रबोधाय, ततः, सन्न्यायः, उच्यते ॥ __वृत्तिः केचित्-मीमांसकादयः । महामोहात्-वक्ष्यमाणस्वरूपाज्ञानविशेषात् । अयम्-बुद्धिस्थः सर्वज्ञः । नास्ति-न वर्तते । एव-अवधारणार्थकम् । एवम्-अनेन प्रकारेण । प्रचक्षतेकथयन्ति । कृपया-दयावंशतः । तत्प्रबोधाय-तेषां मीमांसकादीनां बोधो यथार्थज्ञानन्तत्प्रबोधस्तस्मै तथा । मीमांसकादीनां सर्वज्ञविषयकबोधप्राप्तिहेतवे इति भावः । ततः-तस्य सर्वज्ञस्येत्यर्थः, सार्वविभक्तिकेन तसुना निष्पन्नत्वात् । सर्बज्ञसम्बन्धीति यावत्, सम्बन्धश्च साध्यसाधकभाव एवेति, सर्बज्ञनिष्ठसाध्यतानिरूपितसाधकतावान् । सन्यायः-सन्-समीचीनोऽबाधित इति यावत् न्यायः सर्वज्ञसाधकतर्कः सन्न्याय: " सन्महत्परमोत्तमोत्कृष्टं पूजायाम्" इत्यनेन हैमसूत्रेण कर्मधारयसमासः, उच्यते-निगद्यते, समुपस्थाप्यते इति यावत् ।। २ ।।
ननु महामोहादित्युक्तम् , तत्र को महामोह इति जिज्ञासायां मोहनिरुपणपूर्वकं महामोहं निरूपयति-सर्वज्ञेतिसर्वज्ञा प्रतिपत्तियन्मोहः सामान्यतोऽपि हि । नास्त्येवामिनिवेशस्तु महामोहः सतां मतः ॥ ३ ॥ __ (अन्वयः) यत्, सामान्यतः,-अपि, सर्वज्ञाप्रतिपत्तिः, मोहः, हि तु, सताम् , नास्त्येवाभिनिवेशः, महामोहः, मतः ।
वृत्तिः-यत्-यस्मात् । सामान्यत:-साधारणतः, साधारणरुपेणेति यावत् । अपि-सम्भावनायाम् । सर्वज्ञाऽप्रतिपत्ति:-सर्वज्ञविषय