SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ [६] मशरीरत्व स्वीकारात् । चिरगतः सनातनः । मार्गदेशी - मोक्षमार्गोपदेशनतत्परः । जिनेन्द्र : - देवाधिदेवो जिनेश्वरः । जयति - सर्वोत्कर्षेण वर्तते । अत्र द्वादशस्वपि जिनेन्द्र विशेषणेषु विरोधस्याऽऽभासात् प्रकरणपर्यालोचनया वृत्त्युक्त दिशा समाधानाच्चाने के विरोधाभासालङ्काराः । अत्र जिनेश्वरनमस्काराप्रतीतेरस्य जिनेन्द्रनमस्कारात्ममङ्गलत्वमसङ्गतमिति नाशङ्कनीयम्. जयत्यर्थेन नमस्कारस्याऽऽक्षेपात्, " अहमस्मि जिनेश्वरं प्रति प्रणत: इत्यर्थप्रतीतेः : । यथा" नियतिकृत नियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् । नवरस - रुचिरां निर्मितिमादधती भारती कवेर्जयति” इति काव्यप्रकाशीय - मङ्गलश्लोकवृत्तौ " जयत्यर्थेन च नमस्कार आक्षिप्यते इत्यस्मि तां प्रति प्रणतः " इति मम्मटाचार्येणापि तथाऽभ्युपगमात् । 39 एवञ्चास्य ग्रन्थस्य सर्वज्ञसिद्धिर्विषय:, सर्वज्ञविषयको विशुद्धो बोधः, परम्परया मुक्ति प्रयोजनम्, शास्त्रे कृतभूरिपरिश्रमः सर्वज्ञतत्त्वाऽभिलाषुको वा जनोऽधिकारी, ग्रन्थस्य विषयेण प्रतिपाद्यप्रतिपादकभावसम्बन्ध इत्यनुबन्धचतुष्टयमपि सूचित भवति ॥ १ ॥ सिद्धान्ततत्त्वनिरुपणं पूर्वपक्षनिरूपणात् प्रागसिद्धमसम्भवित वेति प्रथमं सोपष्टम्भं पूर्वपक्षं निरूपयति ग्रन्थकृत् - नास्त्येवायं महामोहादित्यादिना - नास्त्येवायं महामोहात् केचिदेवं प्रचक्षते । कृपया तत्मबोधाय ततः सन्न्याय उच्यते ॥ २॥ 9
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy