________________
[५] अखिलार्थज्ञताऽऽश्लिष्टमूर्तिः-अखिलाः समस्ताश्च तेऽर्थाः पदार्था वस्तूनीति यावत्. अखिलार्थास्तान जानात्यवबुध्यते इत्यखिलार्थज्ञस्तस्य भावस्तत्ता, तया आश्लिष्टा समालिङ्गिता मूर्तिः स्वरुपमात्मेतियावद्यस्य स तथेति विरोधः, मतिरहितस्य सर्वज्ञतावैशिष्ट्याभावात्, मतिज्ञानविरहित इति समाधानम्. विनष्टमतिज्ञानस्यैव केवलित्वाभ्युपगमात् । देवेन्द्राय॑:-देवेन्द्रैः सुरपतिभिरर्व्यः पूज्यो देवेन्द्रार्योऽपि-अप्रसादी-प्रसन्नताविरहित इति विरोधः, आदानप्रदानजनितप्रसन्नताविरहित इति समाधानम् प्राप्तसार्वज्यस्य किश्चिदादानप्रदानरहितत्वात् ।
परमगुणमहारत्नदः- परमा उत्कृष्टाश्च ते गुणा ज्ञानादीनि परमगुणास्त एव महारत्नानि महामूल्यमणयः परमगुणमहारत्नानि तानि ददाति प्रयच्छतीति तथा, तादृशोऽपि अकिञ्चनेश:-नास्ति किञ्चन किमपि येषान्तेऽकिश्वनाः, दारिद्राः, "मयूरव्यंसकेत्यादयः" " ३-१-११६ " इत्यनेन समासः, तेषामीशः प्रभुस्तथा महादरिद्र इति विरोधः, तादृशमहरत्नप्रदातुर्महादरिद्रत्वाभावात् , अकिश्चना मुनयस्तेषामीशो मुनीश्वर इति समाधानम् । तच्चातच्चेतिवक्ता-सदसदुभयविधप्रवचनकर्ता । न वितथवचन:-न वितथमसत्यं वचनं यस्य स तथेति विरोधः, सदसत्तत्त्वनिर्णायक इति समाधानम्. सदसत्तत्त्वविज्ञातुरसत्यवचनत्वाभावात् । योगिनाम्-योगश्चित्तवृत्तिनिरोधोऽस्त्येषामिति योगिनस्तेषान्तथा। भावगर्भम्-भावपरिपूर्ण यथास्यात्तथेति क्रियाविशेषणम् । ध्येयः-ध्यातुं योग्यः, मननीय इति यावत् ।
च-पुनः । सिद्धेः-सिद्धिरूपाया रमण्याः। अनङ्ग -कामरूप इति विरोधः, सिद्धिवधूरमणोऽशरीर इति समाघानम्. सिद्धाना