________________
पदार्थो मायाकल्पित इति न तादृशेनापि सर्वज्ञेन नः किञ्चित्प्रयोजनम् । किश्च यैश्चार्वाकैः शरीरातिरिक्त आत्मापि न स्वीकृतः स्वीक्रियते वा तन्मते सर्वज्ञत्व विशेषणविशिष्ट आत्माऽपदार्थ एवेति न तन्मते सर्वज्ञः सिद्धो भवितुमर्हति । एवं मीमांसकैरपि सर्वज्ञो नानुमन्यते, साङ्ख्यैश्चापि कार्य्यत्वकारणत्वादिविरहितः पुष्करपलाशवन्निर्लेप: सर्वभोक्ताऽऽत्मा स्वीक्रियते न तु ज्ञानादिमान् सर्वज्ञ इति ज्ञानावरणीयादिकर्माष्टकक्षयजनितस्य केवलिनो भगवतः सर्वज्ञस्य सिद्धयर्थमस्य ग्रन्थरत्नस्यात्यन्तमुपादेयतया तत्समाप्त्यर्थ मङ्गलस्यावश्यकत्वात् । तथाचायं मङ्गलश्लोक:लक्ष्मीभृद् वीतरागः क्षतमतिरखिलार्थज्ञताऽऽश्लिष्टमूर्तिदेवेन्द्रायोऽप्रसादी परमगुणमहारत्नदोऽकिश्चनेशः । तच्चातच्चेतिवक्ता न वितथवचनो योगिनां भावगर्भ ध्ये योऽनङ्गश्च सिद्धेर्जयति चिरगतो मार्गदेशी जिनेन्द्रः॥१॥
अन्वयः-लक्ष्मीभृत्, वीतरागः, क्षतमतिः, अखिलार्थज्ञताऽऽश्लिष्टमूर्तिः, देवेन्द्राय॑ः, अप्रसादी, परमगुणमहारत्नदः, अकिञ्चनेशः, तच्चातच्चेतिवक्ता, न वितथवचनः, योगिनाम् , भावगर्भम् , ध्येयः, च, सिद्धेः, अनङ्गः, चिरगतः, मार्गदेशी, जिनेन्द्रः, जयति ।
वृत्ति :-लक्ष्मीभृत्-लक्ष्मी श्रियं बिभर्ति धारयतीति लक्ष्मीभृत् , लक्ष्मीरमण इत्यर्थः, तथासन्नपि-वीतराग:-विशेषेण-इतो गतो रागोऽनुरागो यस्मादिति विरोधः, एवश्च विरोधाभासालङ्कारः, "आभासत्वे विरोधस्य विरोधाभास उच्यते” इति तल्लक्षणात् । क्षतमति:-क्षता विनष्टा मतिर्बुद्धिर्यस्य स तथा, तादृशोऽपि,