________________
[३] अथ तत्रभवान् भगवान् श्रीहरिभद्रसूरिपुङ्गवः श्रीसर्वज्ञसिद्धिप्रकरणात्मग्रन्थरत्नं निर्विघ्नं परिसमापयितुकामो जिनेन्द्रनमस्कागत्मक भावमङ्गलमारचयत्ति-लक्ष्मीभृदित्यादिना ।
ननु सौगत-नैयायिक-वैशेषिकादिभिः सर्वज्ञस्य साधितपूर्वत्वात्तत्सिद्धयर्थ प्रवृत्तस्य ग्रन्थस्यास्य सिद्धसाधनतयाऽनतिप्रयोजनकत्वेन तत्समाप्तेरपीष्टसाधनताज्ञानाविषयत्वेन “ समाप्तिकामो मङ्गलामाचरेत् ” इति श्रुत्या समाप्तिकामनावत एव प्रन्थकारस्य मङ्गले प्रवृत्तिदर्शनात् प्रकरणमिदं तत्समाप्तिसाधनं मङ्गलश्च व्यर्थमेवेति चेत् सत्यम्___ सौगतैः स्वीकृतोऽपि सर्वज्ञ इष्टार्थमात्रज्ञातैव न तु सर्वपदार्थद्रष्टाऽभिमतः सर्वज्ञस्तैरभ्युपगतस्तथाचोक्तम्
सर्व पश्यतु वा मा वा, तत्वमिष्टं तु पश्यतु ।
कीटसंख्यापरिज्ञानं तस्य नः कोपयुज्यते ? ॥ तथा-"सर्व पश्यतु वा मा वा, इष्टमर्थ तु पश्यतु ।
प्रमाणं दूरदर्शी चे-देतान् गृध्रान् प्रपूजय" इति।
एवं च सौगतैः स्वीकृतेनापि सर्वज्ञेन नास्माकं केवली सर्वज्ञः सिद्ध इति । नैयायिकादिमिरप्येक एव जगत्कर्ता परमात्मा सर्वज्ञः स्वीकृतो न तु ज्ञानावरणीयादिकर्मक्षयज निता अनन्तशः सर्वज्ञा अभ्युपगता अभ्युपगम्यन्ते च, ततो न तन्मतसिद्धेनापि सर्वज्ञेन नः किश्चित्प्रयोजनमिति । वेदान्तिभिश्च "सत्यं ज्ञानमनन्तं ब्रह्म" "नेह नानास्ति किञ्चन" इत्यादिश्रुतिभिरेक एव सर्वान्तर्यामी सर्व नियन्ता सर्वज्ञः परमास्मा स्वीकृतस्तदतिरिक्त: 'सर्वोऽपि