________________
[२] केचिन्महामोहविषाक्तचित्ता,
ज्ञानाधभिव्यक्तिमवाध्य कामम् । आरुह्य दूरूढकुतर्कशाखाः,
प्रसह्य सर्वज्ञमपङ् नुवानाः ॥३॥ सर्वज्ञसिद्धिं पुरतो न कृत्वा,
न कापि सिद्धिर्भवतीत्यबुध्वा । स्वयं पतन्तोऽधृतधर्मसूत्रा.
निपातयन्त्यप्यपरान् भवान्धौ ॥४॥ हिताय तेषां मुधियामधीशः,
पाण्डित्यपूर्णो हरिभद्रसरिः। ग्रन्थं च निम्रन्थतयाऽविगीतं,
सर्वज्ञसिद्धिं विधिवद् व्यधत्त ॥५॥ तीर्थप्रतिष्ठापरिनिष्ठितस्य,
ब्रह्मैकनिष्ठस्य नृपार्चितस्य । श्रीनेमिसूरीशितुरात्मनीनं,
कृपाकटाक्षं समवाप्य सिद्धम् ॥६॥ मनस्विना शास्त्रविशारदेन,
प्राचार्यवामृतसूरिणेयम् । विधीयते ' सर्वहिता'ऽभिधाना,
वृत्तिर्वरा सिद्धसमर्थनार्थम् ॥७॥