SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -X. 42 ] १०. दोषगुणनिर्णयः १०१ अत्र पदैकदेशस्य त्वत्प्रत्ययस्य बाहुल्यात् सरसत्वादिपदत्रयं श्रुति-- कटूच्यते । आलिङ्ग्य कामुकः सौख्यं प्रमदायाः पयोधरान् । यात्योदनं सूपकारः पचतेऽलं 'धरेशिने ॥३६॥ अत्र पयोधरान् इति एककान्ताया बहुवचनं पदैकदेशरूपं निरर्थकम् । पचते इत्यात्मनेपदमपि पदैकदेशरूपं निरर्थकं फलेशत्वाभावात् । मां समानो न यातीतः साधरामृतसौष्ठवाम् । अत्र मांसमृतेत्येतत्पदांशोऽश्लीलमुच्यते ॥३७।। अत्र मांसेति जुगुप्साकरमश्लीलं मृतेत्यमङ्गलमश्लीलम् । देवतया पूज्योऽयं नरनाथो धर्मसाररसशाली। देवेति तयेति तथा देवतया वेति भवति संदेहः ॥३८॥ अत्र पदैकदेशरूपं संदिग्धम् । त्यागवाः कुर्वते युद्धं गीर्वाणैस्सर्वदा समम् । लक्षको दानशब्दस्य त्यागशब्देन वाचकः ॥३९।। अत्र त्यागवा इति पदैकदेशस्त्यागशब्दः दानशब्दगमको भवति । न पुनरसुरार्थवाचकः । पददोषं निरूप्याहं वाक्यदोषं ब्रुवेऽधुना। शृणु राय महीनाथ काव्यगोष्ठिविशारद ।।४।। उपहतलुप्तविसर्ग हतवृत्तं गभितं तथाकीर्णम् । न्यूनपदं कथितपदं प्रसिद्धिहतमक्रम विसंधि तथा ॥४१॥ प्रतिकूलवर्णमपदस्थितपदमस्थानगतसमासं च । अधिकपदं रसरहितं समाप्तपुनरात्तमनभिहितवाच्यम् ।।४२।। १. दरोशिने। For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy