SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ शृङ्गारार्णवचन्द्रिका [X.43 - अप्रस्तुतार्थममतपरार्थमर्धान्तरैकवाचि तथा । भग्नप्रक्रममभवन्मतयोगपतत्प्रकर्षयोयुगलम् ।।४३।। असकृद्याति विसर्गो यत्रोकारं विलोप्यभावं वा । उपहतलुप्तविसर्ग तद्वाक्यं दुष्टमिति वदन्ति बुधाः ॥४४।। नरो वरो हितोऽर्यो वा गम्भीरो दुर्लभो भुवि । अवरा अहिता ज्ञानहीना जीवा गृहे गृहे ।।४५।। असकृद्विसर्गो पूर्वार्धे उकाररूपं याति लोपमपरार्धे । यत्र च्छन्दोभङ्गो वर्णानां हीनतादितत्त्वं वा। गुरुलघुवर्णस्थाने लघुगुरु तद्वाक्यमेव हतवृत्तम् ॥४६।। कान्तेन नारीसमाना विदग्धा विलोकितापि प्रमदं न याति । स्मरेण कान्ता हरिणनयना निपीडयतेऽसौ 'कुसुमोरुबाणः ।।४।। अत्र पूर्वार्धे समानेत्यत्र माकारस्थाने लघुना भवितव्यम् । अपरार्धे हरिणनयनेत्यत्र णकारस्थाने यकारस्थाने च गुरुणा भवितव्यम् । गुरुलघोळत्ययाद्धतवृत्तम् । मृगाङ्ककरा शीता हरन्ति तमसां ततिम् । वने चूतकिसलयानि वसन्ते भान्ति सर्वतः ॥४८॥ अत्र पूर्वार्धे प्रथमपादे न्यूनाक्षरत्वं तृतीयपादेऽधिकाक्षरत्वं हतवृत्तं ततः। आरामस्यामलदेशे नारी सकलभूरिगुणरम्या। संक्रोड्य पुनः क्रीडति सरोवरे विदलदखिलकमलाढ्ये ॥४९॥ अत्र प्रथमपादे गणत्रयमतिक्रम्य यतिः छन्दोभङ्गः। द्वितीयपादे नारीति पादमध्ये यतिः छन्दोभङ्गः । ततो हतवृत्तम् । १. कुसुमोरबाणैः । २. शिता। For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy