SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०० शृङ्गारार्णवचन्द्रिका पुरुषो राजते राजसभायां वरधीवरः । प्रकाशयत्यनुचितं कैवर्त धीवरः पदम् ||२७|| प्राधान्येन न वर्तेत स्त्रार्थे यत्पदमीरितम् । अविसृष्टविधेयांशं तत्पदं प्रणिगद्यते ||२८|| मार्गे याति नरः कश्चिन्महाशूरो धनाधिपः । धनाधिपमहाशूरपदे प्राधान्यतो न हि ॥ २९ ॥ सङ्ग्रामदानप्रस्तावे महाशूरधनाधिपपदद्वयेन प्राधान्येन संभवान्मार्गे तदसंभवात् अविमृष्टविधेयांशत्वम् । इष्टार्थादन्यदुष्टार्थप्रतीतिजनकक्षमम् । विरुद्धमतिकृच्चोक्तं तत्पदं विदुषां वरैः ||३०|| सुरतरवे लोकोऽयं गुरवे तुभ्यं सदा नमति । जननी या भवतः सा परोपकारे सदा क्रमते ||३१|| [ x. 27 - सार्थपरामर्शस्य 'सुरतरवे' 'जननी या भवतः' इति पदद्वयं विरुद्धाऽर्थ प्रतीतिकरम् । सुरतरवे सुरत - रवे 'जननी या भवतः ' 'जननी याभवतः । स्वकीयशास्त्रसिद्धार्थं यत्पदं वक्ति तत्पदम् । अप्रतीतमिति प्रोक्तं कथ्यते तदुदाहृतिः ||३२|| त्रैलोक्यं वर्तते जीवसुखदुःखविधायकम् । सृष्टिसंहार करणे बहुधानकमुच्यते ||३३|| सांख्यागमे त्रैलोक्यमिति बहुधानकमिति पदद्वयं प्रधानतत्त्ववाचकं तद् आगमप्रसिद्धत्वाद् अप्रतीतम् । For Private and Personal Use Only उक्त्वा पदगतदोषान् पदैकदेशेषु पूर्वकथितास्तान् । दोषान् वदामि शृणु भो राय नृपाधीश भो यथायोगम् ||३४|| सरसत्वान्मृदुत्वाच्च सुभगत्वाच्च सुन्दरी । जगन्मोहक चित्रं कामेनापि विलोक्यते || ३५ ॥
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy