SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra -X, 8] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दोषगुणनिर्णयो नाम दशमः परिच्छेदः निर्दोषधर्मः पुण्याय यथा शक्तस्तथा भुवि । निर्दोषकाव्यं सत्कीर्त्यं वर्ज्यदोषानतो ब्रुवे ||१|| असमर्थं श्रुतिकटु निरर्थकमवाचकम् । च्युतसंस्कृत्यप्रयुक्तं ग्राम्यमश्लीलकं परम् ||२|| नेयार्थं क्लिष्टसंदिग्धे ततोऽप्यनुचितार्थकम् । अविमृष्टविधेयांशं विरुद्धमतिकृत्तथा ॥३॥ अप्रतीतमिति प्रोक्ताः पददोषा विशारदैः । प्रथमं लक्षणं तेषां कथ्यते क्रमतो मया ॥४॥ अङ्गीकृतार्थं यद्वक्तुं न शक्तं तत्पदं तदा । असमर्थमिति प्रोक्तं तदुदाहरणं यथा ||५|| ग्रामं भवति चैत्रोऽसौ नगरं हन्ति माधवः । दिव्यन्ति साधवो मोक्षं दयतेऽरि धराधिपः ||६|| अत्र भवति - हन्ति - दिव्यन्ति - पदानां गत्यर्थ संभवेऽपि गत्यर्थे सामर्थ्याभावात् पदत्रयसमर्थम् । दयते-पदं हिंसार्थे सामर्थ्याभावादसमर्थम् कठिनाक्षरसंदर्भ पदं श्रुतिकटूदितम् । सूष्ट्रा विनिर्मिते वात्र राष्ट्रे भाति पुरं सदा ॥७॥ अत्र सूष्ट्रा राष्ट्र इति पदद्वयं श्रुतिकटु । पादपूरणमात्रार्थं यत् पदं प्रतिपाद्यते । तन्निरर्थकमित्युक्तं गुणदोषविशारदैः ||८|| For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy