SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शृङ्गारार्णवचन्द्रिका [X.9भाति वै नगरं चात्र खलु शक्रपुरोपमम् । तदेव तु हि गन्तव्यं त्वया सुखफलार्थिना ॥९।। अत्र च वै 'खलु तु हि पदानि स्वार्थानि (न) सन्तीति निरर्थकानि । स्वाभिप्रेतं न वक्त्यर्थं प्रयुक्तमपि यत्पदम् । तदवाचकमित्युक्तं काव्यसारविचक्षणः ॥१०॥ रणे जयाङ्गनां चैत्रो भटत्वाल्लभते पराम् । शूरत्वादिति हेत्वर्थे भटत्वं पदमीरितम् ॥११॥ अत्र भटसामान्यवाचकं भटपदं शूरवाचकं न भवतीत्यवाचक ज्ञेयम् । शास्त्रोक्तलक्षणं नास्ति यत्र तच्च्युतसंस्कृति । भाते विधुर्नभोभागे नगरं तिष्ठते नरः ॥१२॥ अत्र भाते तिष्ठते पदयोरात्मनेपदस्य लक्षणं नास्ति । नगरमित्यधिकरणे द्वितीयाया लक्षणं नास्ति । प्रसिद्धमपि यच्छास्त्रे कविभिन प्रयुज्यते । तदप्रयुक्तं ज्ञातव्यं पदं दुष्टं विशारदैः ॥१३॥ अणिमादिगुणोपेतो दैवतस्तं निरूपयन् । कविभिर्दैवतः शब्दः पुल्लिङ्गे न प्रयुज्यते ॥१४।। यत्पदं नोचितं यत्र तत्र तद्ग्राम्यमुच्यते। ग्रामवर्तिजनश्लाघ्यं निपुनिन्द्यते यथा ॥१५।। अधरं भक्षयित्वासौ तरुण्याः स्तनमण्डलम् । हस्तेनावृत्य तद्देहे शेते कश्चिन्नरो मुदा ॥१६।। अत्र अधरभक्षणं हस्तेन स्तनावरणं कान्ताशरीरशयनं ग्राम्यवचनम् । १. खलु मही पदाशी स्वार्था न । २. निरूपि सन् । ३. कुण्डलम् । For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy